________________
कुर्वाणाणुपदार्थ दर्शन वशाद् भास्वत्प्रभाया स्त्रपा मानत्या जनकृत्तं - मोहरत मे शस्तादरिद्रोहिका, अक्षोभ्या तव भारती जिनपत्ते प्रोन्मादिनां वादिनां, मानत्याजन कृत्तमोहरतमेश स्तादऽरिद्रोहिका (३)
हस्ता लम्बितचूतलुम्बिलतिका यस्या जनोडभ्यागमद्, विश्वासेवित ताम्रपादपरतां वाचा रिपुत्रासकृत् सा भुर्ति वितनोतु नोऽर्जुनरुचि, सिंहेऽधिरूढोल्लसद् विश्वासे वितता म्रपादपरताऽम्बा चारिपुत्राऽसकृत् ....(४)
(२०)
राग : नेत्रानंदकरी भवोदधि - तरी
त्वं येनाक्षतधीरिमा गुणनिधिः प्रेम्णा वितन्वन् सदा, नेमेकान्तमहामना विलसतां राजीमतीरागतः; कुर्यास्तस्य शिवं शिवांगज ! भवाम्भोधौ न सौभाग्यभाग्, नेमे ! कान्तमहामनाविल ! सतां राजीमती रामतः ... (१)
जीयासुर्जिन पुंगवा जयति ते राज्यर्द्धिषु प्रोल्लस द्वामानेक परा जितासु विभया सन्नाभिरा मोदिताः ; यो धालीभिरूदित्वरा न गणिता यैः स्फातयः प्रस्फुर द्वामानेक परा जितासु विभया सन्नाभिरा मोदिताः ... (२)
या गंगेव जनस्य पंकमखिलं पूता हरत्यंजसा, भारत्याऽऽगम संगता नयतताऽमायाचिता साधुना; अध्येतुं गुरुसन्निद्यौ मतिमता कर्तु सतां जन्मभी, भारत्यागम संगता न यतता माऽऽया चिता साऽधुना ... (३)
८४