________________
नौवाँ अध्ययन : ब्रह्मचर्य-संवर
७०३ कीर्तयश्च, प्रत्ययश्च, तस्माद् निभृतेन ब्रह्मचर्य चरितव्यं सर्वतोविशुद्धं यावज्जीवतया (यावज्जीवम् ) यावत् श्वेतास्थि: (श्रेयोऽर्थी) संयतः इत्येवं भणितं व्रतं भगवता । तच्चेदम् -
पंचमहाव्रतसुव्रतम लम्, सभावमनाविलसाधुसुचरितम् । वैरविरमणपर्यवसानम, सर्वसमुद्रमहोदधितीथम् ॥१॥ तीर्थकरेः सुदेशितमार्गम, नरकतिर्यविजितमार्गम् । सर्वपवित्रसुनिर्मितसारम् , सिद्धिविमानापावृतद्वारम् ॥२॥ देवनरेन्द्रनमस्यितपूतम , सर्वजगदुत्तममंगलमार्गम् । दुधर्ष गुणनायकमेकम, मोक्षपथस्यावतंसकभूतम ॥३॥
येन शुद्धचरितेन भवति सुब्राह्मणः सुश्रमण सुसाधुः सुऋषः सुमुनिः स सयतः स एव भिक्षु र् यः शुद्धं चरति ब्रह्मचर्यम् ।
इदं च रतिरागद्वेषमोहप्रवर्द्धनकरम , किंमध्य प्रमाददोषपार्श्वस्थशोलकरणम अभ्यंगनानि च तैलमज्जनानि च अभीक्ष्णं कक्ष-शीर्ष-करचरण-वदन-धावन-संवाहन - गात्रकर्म - परिमर्दनाऽनुलेप । - चूर्णवास-धूपनशरीरपरिमंडनवाकुशिकम, हसित-भणित-नाट्य-गीत-वादित-नट-नर्तकजल्लमल्लप्रेक्षणविडम्बकाः, यानि च शृंगारागाराणि चान्यानि चैवमादिकानि तपःसंयमब्रह्मचर्यघातोपघातिकानि अनुचरता ब्रह्मचर्य वर्जयितव्यानि सर्वकालम । भावयितव्यो भवति चान्तरात्मा एभिस्तपोनियमशीलयोगनित्यकालम् । किं तत् ? अस्नानकाऽदन्तधावनस्वेदमलजल्लधारणं मौनव्रतकेशलोचौ च क्षमादमाऽचेलक्यक्षतपिपासालाघवशीतोष्णकाष्ठशय्याभूमिनिषद्यापरगृहप्रवेशलब्धापलब्धमानाऽपमाननिन्दनदंशमशकस्पर्शनियम - तपोगुण विनयादिकैर् यथा तस्य स्थिरतरकं भवति ब्रह्मचर्यम् ।
इदं चाब्रह्मचर्यविरमणपरिरक्षणार्थतायै प्रवचनं भगवता सुकथितम् , प्रेत्यभाविकम्, आगमिष्यद्भद्रम, शुद्धम नैयायिकम , अकुटिलम, सर्वदुःखपापानां व्युपशमनम् ।
पदान्वयार्थ---श्री सुधर्मास्वामी अपने प्रिय शिष्य जम्बूस्वामो से कहते हैं(जंबू !) हे जम्बू ! (एत्तो य) इस अदत्तादानविरमणसंवर के बाद, (बंभचेरं) ब्रह्मचर्यसंवर के सम्बन्ध में कहता हूँ, जो (उत्तमतव-नियम-नाण-दंसण-चरित्त-सम्मत्तविणयमूलं) उत्तम तप, नियम, ज्ञान, दर्शन, चारित्र, सम्यक्त्व, और विनय का मूल है (यम-नियम-गुणप्पहाणजुत्तं) अहिंसा सत्यआदिवत,अभिग्रह आदि नियम, जो प्रधान