________________
७०२
श्री प्रश्नव्याकरण सूत्र स्तिमितमध्यम्, आर्जवसाधुजनाचरितम्, मोक्षमार्गम्, विशुद्धसिद्धिगतिनिलयम्, शाश्वतम, अव्याबाधम्, अपुनर्भवम्, प्रशस्तम्, सौम्यम्,शुभम् (सुखम्), शिवम्, अचलम्, अक्षयकरम्, यतिवरसंरक्षितम्, सुचरितम्, सुसाधितम्, केवलं मुनिवरैर् महापुरुषधीरशूरधार्मिकधृतिमतां च सदा विशुद्धम्, भव्यम्, सर्वभव्यजनानुचरितम्, निःशकितम्, निर्भयम्, निस्तुषम्, निरायासम्, निरुपलेपम्, निर्वृत्तिगृहम्, नियमनिष्प्रकम्पम्, तप संयममूलदलिकनिभम् , पंचमहाव्रतसुरक्षितम्, समितिगुप्तिगुप्तम, ध्यानवरकपाटसुकृतम्, अध्यात्मदत्तपरिघम ,सन्नद्धाच्छादित दुर्गतिपथम ,सुगतिपथदेशकम् च लोकोतम च व्रतमिदम, पद्मसरस्तडागपालिभूतम्, महाशकटारकतुम्बभूतम , महाविटपवृक्षस्कन्धभूतम, महान रप्राकारकपाटपरिघभूतम, रज्जुपिनद्ध इवेन्द्रकेतुविशुद्धानेकगुण सम्पिनद्धम् यस्मिश्च भग्ने भवति सभग्न-मदित-मथितचूणित-कुशल्यित-पर्वतपतित (पर्यस्तपतित)-खडित-परिशटित-विनाशितम् , विनय-शोल-तपो-नियमगुणसम हः तद्ब्रह्म भगवद् ग्रहगणनक्षत्रतारकाणां वा यथोडुपतिः, मणि-मुक्ता-शिला-प्रवाल-रक्तरत्नाकराणां यथा समुद्रः, वैडूर्य
चैव यथा मणोनाम , यथा मुकुटं चंव भूषणानाम , वस्त्राणामिव क्षौमयुगलम्, अरविन्दमिव पुष्पज्येष्ठम्, गोशीर्षमिव चन्दनानाम्, हिमवान् । इवौषधोनाम, सीतोदा इव निम्नगानाम् , उदधिषु यथा स्वयम्भूरमणः, रुचकवर इव मांडलिकपर्वतानाम् , प्रवर ऐरावण इव कुजराणाम, सिंह इव यया म गाणाम् , प्रवरः पवकानां चेव वेणुदेवः, धरणो यथा पन्नगेन्द्रराजा, कल्पानामिव ब्रह्मलोकः, सभासु च यथा भवेत् सुधर्मा, स्थितिषु लवसप्तमेव प्रवरा, दानानामिव अभयदानम , कृमिराग इव कम्बलानाम , संहननमिव वज्रर्षभम, संस्थानमिव समचतुरस्रम , ध्यानेषु च परमशुक्लध्यानम, ज्ञानेषु च परमकेवलं तु सिद्धम् , लेश्यासु च परमशुक्ललेश्या, तीर्थङ्करो यथेव मुनोनाम्, वर्षेषु यथा महाविदेहः, गिरिराज इव मन्दरवरः, वनेषु यथा नन्दनवन प्रवरम् , द्रुमेषु यथा जम्बूः, सुदर्शना विश्रुतयशा यस्या नाम्ना चायं द्वीपः, तुरगपतिः, गजपतिः, रथपतिः, नरपतिः विश्रुतइव राजा, रथिक इव यथा महारथगतः, एवमनेके गुणा अहोना भवन्त्येकस्मिन् ब्रह्मचर्ये यस्मिश्चाराधिते आराधितं वतमिदं सर्वम्, शीलम , तपश्च, विनयश्च, संयमश्च, क्षान्तिगुप्ति: मुक्तिस्तथैव ऐहलौकिकपारलौकिकयशांसि च