________________
श्री ' प्रश्नव्याकरण सूत्र
तस्येमाः पंचभावनास्तृतीयस्स भवन्ति परद्रव्यहरणविरमणपरिरक्षणार्थता, (१) प्रथमं देवकुलसभाप्रपाऽव संथ वृक्षमूला रामकन्दराकर गिरिगुहाकमद्यानयानशा लाकुपितशालामंडपशून्यगृहश्मशानलयनापणे अन्यस्मि श्चैवमादिके उदकमृत्तिकाबीज हरितत्रसप्राणासंसक्त यथाकृते प्रासुके विविक्तं प्रशस्ते उपाश्रये भवति विहर्त्तव्यम्, आधाकर्मबहुलश्च यः स आसिक्तसम्माजितोत्सिक्तशोभितछादनधवलन लेपनाऽनुलेपनज्वलन भाण्डचालनम्, अन्तर्बहिश्चाऽसंयमो यत्र वर्त्तते संयतानामर्थाय वज्जिनव्यः खलु उपाश्रयः स तादृशः सूत्रप्रतिष्ट, एवं विविक्तवासवसति समितियोगेन भावितो भवति अन्तरात्मा नित्यमधिकरणकरणकारापणपापकम्मंविरतो दत्तानुज्ञाताऽवग्रहरुचिः । (२) द्वितीयं आरामोद्यानकाननवन प्रदेशभागे यत्किचिद् इक्कडं ( इक्कुडं) वा कठि (थि) - नकं च जन्तुकं च परामेराकूर्चकुशदर्भपलाल मूयकवल्वजपुष्पफलत्वक्प्रवालकन्दमूल तृणकाष्ठशर्करादि गृह्णाति, शय्योपधेरर्थाय न कल्पतेऽवग्रहेऽदत्तं गृहीतुं । अहन्यहनि अवग्रहमनुज्ञाप्य गृहीतव्यमेवमवग्रह समितियोगेन भावितो भवत्यन्तरात्मा नित्यमधिकरणकरणकारापणपापकर्मविरतो दत्तानुज्ञातावग्रहरुचिः । ( ३ ) तृतीयं पीठ फलक
- संस्तारकार्थाय वृक्षा न छेत्तव्याः, न छेदनेन भेदनेन शय्या कारयितव्या, यस्यैवाश्रये वसेत् शय्यां तत्रैव गवेषयेत् न च विषमां समां कुर्यात्, न निवातप्रवातोत्सुकत्वं न दंशमशकेषु क्षुभितव्यम्, अग्निधूमश्च न कर्त्तव्यः । एवं संयमबहुल, संवरबहुल:, संवृतबहुल, समाधिबहुलो धीरः कायेन स्पृशन् सततमध्यात्मध्यानयुक्त समित एकश्चरेद् धर्मम् । एवं शय्यासमितियोगेन भावितो भवत्यन्तरात्मा नित्यमधिकरण- करण- कारापणपापकर्मविरतो दत्तानुज्ञातावग्रहरुचि । (४) चतुर्थ साधारणपिंडपात (त्र, लाभे भोक्तव्यं संयतेन सम्यक्, न शाकसूपाधिकं न प्रचुरं न वेगितं, न त्वरितं न चपलं, न साहसं न च परस्य पीडाकरसावद्यं तथा भोक्तव्यम् यथा तृतीयव्रतं न सीदति, साधारण पिंडपात त्र) लाभे सूक्ष्ममदत्तादान व्रत नियमविरमण एवं साधारण पिंडपात (त्र) लाभे समितियोगेन भावितो भवत्यन्तरात्मा नित्यमधिकरण- करणकारापणपापकर्म विरतो दत्तानुज्ञातावग्रहरुचिः । ( ५ ) पंचमकं साधर्मिकेषु विनयः प्रयोक्तव्य, उपकरणपारणयोविनयः प्रयोक्तव्यः, वाचनापरिवर्तनयोविनयः प्रयोक्तव्यो, दानग्रहणपृच्छनासु विनयः प्रयोक्तव्यो, निष्क्रमणप्रवेशन
६८२