________________
सातवां अध्ययन : सत्य-संवर
पुणाइ सच्चं तु भासियत्वं ? जं तं दबेहिं पज्जवेहि य गुणेहिं कम्मेहिं बहुविहेहिं सिप्पेहिं आगमेहि य नामक्खायनिवाउवसग्गतद्धियसमाससंधिपदहे उजोगिय उणादिकिरियाविहाणधातुसरविभत्तिवन्न जुत्तं तिकल्लं दसविहं पि सच्चं जह भणियं तह य कम्मुणा होई दुवालसविहा हाइ भासा, वयणं पि य होइ सोलसविहं, एवं अरहंतमणुन्नायं समिक्खियं संजएण कालंमि य वत्तव्वं । (सू० २४)
संस्कृतच्छाया जम्बू ! द्वितीयं च सत्यवचनं शुद्ध, शुचिकं, शिवं, सुजातं, सुभाषितं, सुव्रतं, सुकथितं, सुदृष्ट, सुप्रतिष्ठितं, सुप्रतिष्ठितयशः, सुसंयमितवचनोक्त, सुरवर-नरवृषभ-प्रवरबलवत् सुविहितजनबहुमत, परमसाधुधर्मचरणं, तवनियमपरिगृहीतं सुगतिपथदेशकं च लोकोत्तमं व्रमिदम् । विद्याधरगगनगमनविद्यानां साधक, स्वर्गमार्गसिद्धिपथदेशकमवितथं तत् सत्यम्, ऋजुकम्, अकुटिलम्, भूतार्थम्, अर्थतो विशुद्धम्, उद्योतकरम्, प्रभाष(स)कम् भवति सर्वजीवानां जीवलोके अविसंवादि। यथार्थमधुरं प्रत्यक्ष देवमिव यत् तदाश्चर्यकारकम्, अवस्थान्तरेषु बहुकेषु मनुष्याणाम् । सत्येन महासमुद्रमध्ये (अपि) तिष्ठन्ति,न निमज्जन्ति मूढानीका अपि पोताः, सत्येन चोदकसम्भ्रमेऽपि नोह्यन्ते, न च म्रियन्ते, स्ताघ च ते लभन्ते। सत्येन चाग्निसम्भ्रमेऽपि न दह्यन्ते ऋजुका मनुष्याः । सत्येन च तप्ततैलत्रपुलोहसीसकानि छुपन्ति, धारयन्ति, न च दह्यन्ते मनुष्याः। पर्वतकटकाद् मुच्यन्ते, न च म्रियन्ते सत्येन च परिगृहीताः । असिपंजरगता समरादपि नियन्ति अनघाश्च सत्यवादिनः । वधबन्धाभियोगवैरघोरेभ्यः प्रमुच्यन्ते चामित्रमध्यान्निर्यान्ति अनघाश्च सत्यवादिनः । सादैव्यानि च देवताः कुर्वन्ति सत्यवचने रतानाम् । तत् सत्यं भगवत्,तीर्थ कर-सुभाषितम् दशविधम्, चतुदशपूविभिः प्राभतार्थविदितम्, महर्षीणां च समयप्रदत्तम्, देवेन्द्र-नरेन्द्रभाषितार्थम्, वैमानिकसाधितम्, महार्थम्, मंत्रौषधिविद्यासाधनार्थम्, चारणगणश्रमणसिद्धविद्यम्, मनुजगणानां वन्दनीयम्, अमरगणानामर्चनीयम्, असुरगणानां च पूजनीयम्,अनेकपाषं (ख)डिपरिगृहीतम्, यत् तल्लोके सारतरम्, गम्भीरतरं महासमुद्रात्, स्थिरतरकं मेरुपर्वताव, सोमतरकं