SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ छठा अध्ययन : अहिंसा-संवर ५८१ धिकमना वा) श्रद्धासंवेगनिर्जरमनाः प्रवचनवात्सल्यभावितमना उत्थाय च प्रहृष्टतुष्टो यथारात्निकं निमंत्र्य च साधून भावतश्च वितीर्णे च गुरुजनेनोपविष्टे संप्रमृज्य सशीर्ष कायं तथा करतलं अमूच्छितः, अगृद्धः अग्नथितः, अगहितः अनध्युपपन्नः, अलुब्धः, अनात्मिकार्थः, असुरसुरमचवचवमद्रुतमविलम्बितमपरिशाटिम्, आलोकभाजने यतं प्रयत्नेन व्यपगतसंयोगम्, अनंगारं च विगतधूम, अक्षोपांजनवणानुलेपनभूतं, संयमयात्रामात्रानिमित्त संयमभारवहनार्थतया भुजीत प्राणधारणार्थतया संयतेन समितमेवमाहारसमितियोगेन भावितो भवत्यन्तरात्मा अशबलाऽसंक्लिष्टनिवणचारित्रभावनया (भावनाक:) अहिंसकः संयतः सुसाधुः । (५) पंचममादाननिक्षेपणसमितिः पीठफलकशय्यासंस्तारकवस्त्रपात्रकम्बलदण्डकरजोहरणचोलपट्टकमुखपोत्तिकापावप्रोञ्छनादि (वा) एतदपि संयमस्योपवृहणार्थतया वातातपदंशमशकशीतपरिरक्षणार्थतया उपकरणं रागद्वेषरहितं परिधर्तव्यम् । संयतेन नित्यं प्रतिलेखनप्रस्फोटनाप्रमार्जनया अति च रात्रौ चाप्रमत्तेन भवति सततं निक्षेप्तव्यं च गृहीतव्यं च भाजन-माण्डोपध्युपकरणम् । एवमादानभाण्डनिक्षेपणासमितियोगेन भावितो भवति अन्तरात्मा अशबलासंक्लिष्टनिर्वणचारित्रभावनया (भावनाकः) अहिंसकः संयतः सुसाधुः। एवमिदं संवरस्य द्वारं सम्यक् संवृतं भवति सुप्रणिहितमेभि: पंचभिरपि कारणमनोवचनकायपरिरक्षितैर् नित्यमामरणान्तं च एष योगो नेतव्यो धृतिमता मतिमता अनाश्रवः, अकलुषः, अच्छिद्रः, अपरिस्रावी असंक्लिष्टः, शुद्धः, सर्वजिनानुज्ञातः, एवं प्रथमं संवरद्वारं स्पृष्टं, पालितं, शोभितं, तीरितं, कीर्तितं, आराधितमाज्ञयाऽनुपालितं भवति, एवं ज्ञातमुनिना भगवता प्रज्ञापितं, प्ररूपितं, प्रसिद्धं, सिद्धं, सिद्धवरशासनमिदम् अर्घापितं सुदेशितं प्रशस्तं,प्रथमं संवरद्वारं समाप्तमिति ब्रवीमि ॥१॥ (सू० २३) पदान्वयार्थ-(तस्य पढमस्स वयस्स) उस प्रथम अहिंसा-व्रत की (इमा) ये (पंचभावणातो) पांच भावनाएं हैं, जो (पाणाइवायवेरमणपरिरक्खणट्ठयाए) प्राणातिपात-हिंसा से विरमण-विरतिरूप अहिंसा की रक्षा के लिए हैं। (पढम) प्रथम ईर्यासिमितिभावना का स्वरूप है-(ठाण-गमण-गुण-जोग-जुजण-जुगंतर-निवातियाएदिट्ठीए) स्थान-ठहरने व गमन करने में गुण—प्रवचनोपघातरहितगुण के योग से जुड़ी हुई तथा युगान्तर—गाड़ी के जुए के प्रमाण चार हाथ आगे की भूमि पर
SR No.002476
Book TitlePrashna Vyakaran Sutra
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyanpith
Publication Year1973
Total Pages940
LanguageHindi
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy