________________
श्री प्रश्नव्याकरण सूत्र
आराहियं आणाते अणुपालियं भवति, एवं (यं) नाय मुणिरणा भगवया पन्नवियं, परूवियं, पसिद्ध, सिद्धं, सिद्धवरसासणमिणं, आघवितं, सुदेसितं, पसत्थं पढमं संवरदारं समत्तं ति बेमि ||१|| (सू० २३)
५८०
संस्कृतच्छाया
तस्येमाः पंचभावनाः प्रथमस्य व्रतस्य भवन्ति प्राणातिपातविरमणपरिरक्षणार्थम् ( १ ) प्रथमं स्थानगमन गुणयोगयोजन युगान्तरनिपातिकया दृष्ट्या ईरितव्यम्, कीट पतंग सस्थावरवयापरेण नित्यं पुष्पफलत्वक्प्रवालकन्दमूल - मृत्तिकाबीजहरितपरिवर्जकेन सम्यक्; एवं खलु सर्वप्राणा न होलयितव्या, न निन्दितव्या न गर्हितव्याः, न हिंसितव्याः, न छेत्तव्याः, न भेत्तव्याः, न व्यथितव्याः, न भयं दुःखं च किचिद् लभ्याः, प्रापयितुं ये (इति), एवमीर्यासमितियोगेन भावितो भवत्यन्तरात्मा अशबलासं क्लिष्ट निव्रणचारित्र भावनया ( भावनाक: ) अहिंसकः संयतः सुसाधुः । (२) द्वितीयं च मनसा पापकेन पापकमधार्मिकं वारुणं नृशंसं वधबन्धपरिक्लेशबहुलं भयमरणपरिक्लेशसंविलष्टम्, न कदाचिन्मनसा पापकेन पापकं किंचिदपि ध्यातव्यम् । एवं मनः समितियोगेन भावितो भवत्यन्तरात्मा अशबलासंक्लिष्टनिर्वाणचारित्रभावनया ( भावनाकः) अहिंसकः संयतः सुसाधुः । (३) तृतीयं च वाचा ( अधार्मिकं दारुणं नृशंसं वधबन्धपरिक्लेशबहुलं जरामरणपरिक्लेश संक्लिष्टं न कदाचिदपि तया) पापिया पापकं न किचिदपि भाषितव्यम् । एवं वाक्समितियोगेन भावितो भवत्यन्तरात्मा अशबलासं क्लिष्ट निव्रणचारित्रभावनया ( भावनाक: ) अहिंसकः संयतः सुसाधुः । (४) चतुर्थमाहारैषणायाः शुद्ध उंछो गवेषयितव्यः, अज्ञातः, अकथितः, अग्रथितः, अदुष्टः, अदीन: (अद्रीणः), अकरुणः, अविषादी, अपरितान्तयोगी यत्नघटनकरणचरित विनयगुणयोगसंप्रयोगयुक्तो भिक्षु भिक्षंषणायां युक्तः सामुदायिक अटित्वा भिक्षाचर्यामुञ्छं गृहीत्वाऽऽगतो गुरुजनस्य पार्श्व गमनागमनातिचारान् प्रतिक्रमण (मे) - प्रतिक्रान्तः, आलोचनादानं च दत्त्वा गुरुजनस्य (गुरुसंदिष्टस्य वा ) यथोपदेशं निरतिचारं चाप्रमत्तः पुनरप्यनेषणायाः प्रयतः प्रतिक्रम्य प्रशान्त आसीनसुखनिषण्णो मुहूर्त्त मात्रं च ध्यानशुभयोगज्ञानस्वाध्यायगोपितमना धर्ममना अविमनाः शुभमना अविग्रहमना (अव्युदग्रहमना वा) समाहितमनाः । समा