________________
श्री प्रनञ्याकरण सूत्र
अप्पसुहो बहुदुक्खो महभओ बहुरयप्पगाढ़ो दारुणो कक्कसो असाओ वाससहस्सेहिं न मुच्चति, न य अवेदइत्ता अस्थि हु मोक्खत्ति, एवमाहंसु नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेज्जो, कहेसी य अबंभस्स फलविवागं, एयं तं अबंभंपि च उत्थं सदेवमणुयासुरस्स लोगस्स पत्थणिज्जं एवं चिरपरिचियमणुगयं दुरंतं चउत्थं अधम्मदारं समत्तं त्ति बेमि ||४|| ( सू० १६ ) संस्कृतच्छाया
४०८
मैथुनसंज्ञासंप्रगृद्धाश्च मोहभृताः शस्त्रं र् घ्नन्ति अभ्योऽन्यम्, विषयविषस्य उदीरकेषु ( उदारा) अपरे परदारैः (परदारेषु प्रवृत्ताः ) हन्यन्ते, विश्रुता धननाशं च प्राप्नुवन्ति परस्य दारेभ्यो ये अविरताः मैथुनसंज्ञासम्प्रगृद्धाः ( संप्रगृह्याः) च मोहभृता: अश्वा, गजाः, गावो, महिष्यः, मृगाश्च मारयन्ति परस्परम् । मनुजगणाः वानराश्च पक्षिणश्च विरुध्यन्ते, मित्राणि क्षिप्रं भवन्ति शत्रवः । समयान्, धर्मान्, गणान् च भिदन्ति परदारिणः । धर्मगुणरताश्च ब्रह्मचारिणः क्षणेन अपवर्तन्ते चारित्रात् । यशस्वन्तः सुव्रताश्च प्राप्नुवन्ति अयशः कीर्तिम् । रोगार्त्ताः, व्याधिताः प्रवर्द्धयन्ति रोगव्याधीन् । द्वावपि लोकौ दुराराधकौ भवतः इहलोके चैव परलोके परस्य दारेभ्यो ये अविरताः । तथैव केचित् परस्य दारान् गवेषयन्तो गृहीताः हताश्च बद्धरुद्धाश्च एवं यावद् गच्छन्ति विपुलमोहाभिभूतसंज्ञाः । मैथुनमूलं च श्रूयन्ते तत्र तत्र वृत्त - पूर्वाः संग्रामाः जनक्षयकराः, सीताया द्रौपद्याः कृते रुक्मिण्याः पद्मावत्या - स्तारायाः कांचनायाः रक्तसुभद्रायाः अहिल्यायाः सुवर्णगुलिकायाः किन्नर्याः सुरूपविद्य न्मत्या रोहिण्याश्च । अन्येषु चैवमादिकेषु बहवो महिलाकृतेषु श्रूयन्ते अतिक्रान्ताः संग्रामाः ग्रामधर्ममूलाः । अब्रह्मसेविन: इह लोके तावन्नष्टा (इहलोकेऽपि नष्ट कीर्तिः) परलोकेऽपि च नष्टाः महति महामोहतिमिस्रान्धकारे घोरे सस्थावर सूक्ष्मबादरेषु पर्याप्ताऽपर्याप्तसाधारणशरीरप्रत्येक शरीरेषु च अंडजपोतजजरायुजरसजसं स्वेदि मोदद्भिज्जौपपातिकेषु च नरकतिर्यग्देवमानुषेषु जरामरणरोगशोक बहुले पल्योपमसागरोपमाण्यनादिकमनवदग्रं दीर्घाद्धं (दीर्घावं ) चातुरन्त संसारकान्तारमनुपरिवर्तन्ते जीवाः मोहवश संनिविष्टाः ।
एष सः अब्रह्मणः फलविपाकः, इहलौकिकः पारलौकिकश्च अल्पसुखः,