________________
३७६
चतुर्थ अध्ययन : अब्रह्मचर्य-आश्रव विस्तीर्णपृथुलवक्षसो, युगसन्निभरतिदपोवरप्रकोष्ठसंस्थितसुश्लिष्टविशिष्टलष्टसुनिचितघनसुबद्धसन्धयः, पुरवरवरपरिघर्तितभुजा, भुजगेश्वरविपुलभोगादानपरिघोत्क्षिप्तदीर्घबाहवो, रक्ततलोपचित(तलौपचयिक तलौपयिक) मृदुक मांसलसुजातलक्षणप्रशस्ताच्छिद्रजालपाणयः, पीवरसुजातकोमलवरांगुलयस्ताम्रतलिनशुचिरुचिरस्निग्धनखाः, स्निग्धपाणिरेखाश्चन्द्रपाणिरेखाः, सूर्यपाणिरेखाः, शंखपाणिरेखाश्चक्रपाणिरेखा, दिक्स्वस्तिकपाणिरेखा, रविशशिशंखवरचक्रदिस्वस्तिकविभक्तसुविरचितपाणिरेखा, वरमहिषवराह-सिंह-शार्दूल-वृषभ-नागवरप्रतिपूर्ण - विपुलस्कन्धाश्चतुरंगुलसुप्रमाणकम्बुवरसदृशग्रीवा, अवस्थितसुविभक्तचित्रश्मश्रवः, उपचितमांसलप्रशस्तशार्दूलविपुलहनुकाः, उपचित (औपयिक)शिलाप्रवालबिम्बफलसन्निभाधरोष्ठाः, पाण्डुरशशिशकलविमलशंखगोक्षीरफेनकुन्ददकरजोमृणालिकाधवलदन्तश्रेणयोऽखंडदंता, अस्फुटितदन्ता, अविरलदन्ताः सुस्निग्धदन्ताः, सुजातदन्ता, एकदन्तश्रेणिरिवानेकदन्ता, हतवहनिर्मातधौततप्ततपनीयरक्ततलतालू जिह्वा, गरुडायतर्जुतुंगनासा, अवदालितपुंडरीकनयना, कोकासित(विकसित)धवलपत्रलाक्षा, आनामितचापरुचिरकृष्णाभ्रराजिसंस्थितसंगतायतसुजातभ्रू का,आलीनप्रमाणयुक्तश्रवणाः सुश्रवणाः,पीनमांसलकपोलदेशभागाः, अचिरोद्गतबालचन्द्रसंस्थितमहाललाटा, उडुपति पतिरिव)प्रतिपूर्णसौम्यवदनाश्छत्राकारोत्तमांगदेशा, घननिचितसुबद्धलक्षणोन्नतकूटाकारनिपिंडिताग्रशिरसो, हुतवहनिर्मातधौततप्ततपनीयरक्तकेशान्तकेशभूमयः, शाल्मलिपौण्डघननिचितच्छोटितमृदुविशदप्रशस्तसूक्ष्मलक्षणसुगन्धिसुन्दरभुजमोचकभृगनीलकज्जलप्रहृष्टभ्रमरगणस्निग्धनिकुरुम्बनिचित - - कुचितप्रदक्षिणावर्त्तमूर्द्धशिरोजाः, सुजातसुविभक्तसंगतांगाः, लक्षणव्यंजनगुणोपपेताः, प्रशस्तद्वात्रिंशल्लक्षणधरा, हंसस्वराः, क्रौंचस्वरा, दुन्दुभिस्वराः, सिंहस्वरा, ओघस्वरा, मेघस्वराः, सुस्वराः, सुस्वरनि?षा, वज्रर्षभनाराचसंहननाः, समचतुरस्रसंस्थानसंस्थिताश्छायोद्योतितांगोपांगा, प्रशस्तच्छ्वयो, निरातंकाः, कंकग्रहणीका (णिनः), कपोतपरिणामाः शकुनिपोस (अपान) पृष्ठान्तरोरुपरिणताः, पद्मोत्पलसदृशगन्धोच्छ्वाससुरभिवदना, अनुलोमवायुवेगा, अवदातस्निग्धकाला, विग्रहिकोन्नतकुक्षयोऽमृतरसफलाहारास्त्रिगव्यूतसमुच्छ्रितास्त्रिपल्योपमस्थितिकास्त्रीणि च पल्योपमानि परमायूंषि पालयित्वा तेऽप्युपनमन्ति मरणधर्ममवितृप्ताः कामानाम् ।