SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ श्री प्रश्नव्याकरण सूत्र पथमवास्तृण्वन्तं धन स्फुटद्वीचि कल्लोल संकुलं, महामकर मत्स्य - कच्छपोहारग्राहतिमि - सु सुमारश्वापदसमाहतसमुद्धावत्पूरघोरप्रचुरं कातरजन हृदयकम्पनं घोरमारसन्तं महाभयं भयंकरं प्रतिभयं उत्त्रासनकमनर्वाक्वारं आकाशमिव निरवलम्बमौत्पातिकपवनात्यर्थनोदितोपयु परितरङ्गहप्तातिवेग वेग चक्षुकुत्रचिद्गम्भीरविपुलर्गाजततगु' जितनिर्धातगुरुकनिपतित सुदीर्घनिर्हादीदूरश्रूयमाणगम्भीरधुगधुगायमान- शब्द प्रतिपथरुन्धान (रु भत्) यक्षराक्षसकूष्माण्ड पिशाच रुषिततज्जा तोपसर्गसहस्रसंकुलं बहुत्पातिकभूतं विरचितबलिहोम धूपोपचारदत्त रुधिरार्चनाकरण प्रयतयोगप्रयतचरितं पर्यन्तयुगान्तकालकल्पोपमं दुरन्तमहान दीन दो पतिमहाभीमदर्शनीयं दुरणुचरं विषमप्रवेशं दुःखोत्तारं दुराशयं (दुराश्रयं) लवणसलिलपूर्णम्, असितसितस मुछितकैर्दशतरकैः (हस्ततरकैः) वाहनैरतिपत्य समुद्रमध्ये घ्नन्ति गत्वा जनस्य पोतान् परद्रव्यहरा नरा, निरनुकम्पा निरवकांक्षा ग्रामाकरनगरखेटकर्वटमडम्बद्रोणमुखपत्तनाश्रमनिगमजनपदान् समृद्धान् घ्नन्ति, स्थिर हृदयाश्च छिन्नलज्जाः बंदीग्रह - गोग्रहांश्च गृह्णन्ति दारुणमतयो निष्कृपा निजं घ्नन्ति, छिन्दन्ति गेहसन्धिं, निक्षिप्तानि च हरन्ति धन-धान्यद्रव्यजातानि जनपदकुलानां निर्घुणमतयः परस्य द्रव्येभ्यो येsविरताः । तथैव केचिददत्तादानं गवेषयन्तः कालाकालयोः सञ्चरन्तश्चितिका प्रज्वलित सरसदरदग्धकृष्टकलेवरे रुधिरलिप्तवदनाक्षतखादितपीतडाकिनी भ्रमद्भयंकरे खिखीयमान जम्बुके धूककृतघोरशब्दे, वेतालोत्थित निशुद्ध कहकहा यमान प्रहसितभीषणनिरनिरामे अतिदुरभिगन्धबीभत्स दर्शनीये श्मशान-वन - शून्य गृह-लयनान्तरापण - गिरिकन्दरविषमश्वापदसमाकुलासु वसतिषु क्लिश्यन्तः शीतातपशोषितशरीरा दग्धच्छवयोरियतिर्यग्भव संकटदुःख सम्भारवेदनीयानि पापकर्माणि संचिन्वन्तो दुर्लभभक्ष्यान्नपानभोजनाः पिपासिता बुभुक्षिता: क्लान्ताः मांस कुणपकंद मूलयत्किञ्चित्कृताहारा उद्विग्ना उत्प्लुता ( उत्पूता अथवा उत्सुका) अशरणा अटवीवासमुपयन्ति व्यालशतशंकनीयम् । अयशस्करास्तस्करा भयंकराः कस्य हरामोऽद्य द्रव्यमिति सामर्थ्यं कुर्वन्ति गुह्यं । बहुकस्य जनस्य कार्यकारणेषु विघ्नकरा मत्तप्रमत्तप्रसुप्तविश्वस्तछिद्रघातिनो व्यसनाभ्युदयेषु हरणबुद्धयो वृका इव रुधिरेच्छवः परियन्ति २५० - - -
SR No.002476
Book TitlePrashna Vyakaran Sutra
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyanpith
Publication Year1973
Total Pages940
LanguageHindi
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy