________________
तृतीय अध्ययन : अदत्तादान-आश्रव
१४६
प्रचुरपटुपटहाहतनिनादगम्भीरनन्दितप्रक्ष भितविपुलघोषे हयगजरथयोधत्वरितप्रसृतरजउद्धततमोऽन्धकारबहुले कातरनरनयनहृदय-याकुलकरे विलुलितोत्कटवरमुकुटतिरीट, कुण्डलोडुदामाटोपिके प्रकटपताकोच्छ्रितध्वजवैजयन्तीचामरचलच्छवान्धकारगम्भीरे यहेषित - हस्तिगुलुगुलायित-रथघणघणायित - पदातिहरहरायितास्फोटितसिंहनादसेंटितविघृष्टोत्कृष्टकण्ठगतशब्दभीमर्गाजते सहेलया (एकहेलया) हसद्रुष्यत्कलकलारावे आशूनितवदनरुद्र, भीमदशनाधरोष्ठगाढ़दष्टे सत्प्रहरणोद्यतकरेऽमर्षवशतीवरक्तनिर्दारिताक्षे वैरदृष्टिकद्धचेष्टित . त्रिवलीकुटिलभ्रकुटिकृतललाटे, वधपरिणतनर सहस्रविक्रमविजृम्भितबले। वल्गत्तुरगरथप्रधावितसमरभटापतितछेकलाघवप्रहारसाधितसमुच्छ्रित- बाहुयुगलमुक्ताट्टहासपूत्कुर्वबोलबहुले, स्फुरत्फलकावरणगृहीतगजवरप्रार्थ्यमानदृप्तभटखलपरस्परप्रलग्नयुद्ध वितविकोशितवरासिरोषत्वरिता - भिमुखप्रहरच्छिन्नकरिकरव्यङ्गितकरे, अपविद्धनिशुद्धभिन्नस्फाटितप्रगलितरुधिरकृतभूमिकर्दमचिलिचिल्ल (प्रस्खलत्) - पथे, कुक्षिदारितगलितलुठन्निर्भे लितान्त्रफुरफुरायमाणविकलमर्माहत - विकृतगाढ़दत्तप्रहारमूच्छितलुठविह्वलविलापकरुणे, हययोधभ्रमत्तुरगोदाममत्तकुंजर-परिशंकितजननिबुक्कछिन्नध्वजभग्नरथवरनष्टशिरःकरिकलेवराकीर्णपतितप्रहरणविकोर्णाभरणभूमिभागे नृत्यत्कबन्धप्रचुरभयंकरवायसपरिलीयमानगृद्धमण्डलभ्रमच्छायान्धकारगंभीरे वसुवसुधाविकम्पिता इव प्रत्यक्षपितृवनं परमरुद्रभयानकं दुष्प्रवेशतरकमभिपतन्ति संग्रामसंकटं परधनमिच्छन्तः । अपरे पदातिचौरसंघाः सेनापतिचौरवृन्दप्रकर्षकाश्चाटवी-देशदुर्गवासिनः कालहरितरक्तपीतशुक्लानेकशतचिह्नपट्टबद्धाः परविषयानभिघ्नन्ति । लुब्धा धनस्य कार्ये रत्नाकरसागरमुर्मीसहस्रमालाकुलाकुलवितोयपोतकलकलायमानकलितं पातालसहस्रवातवशवेगसलिलोद्धमायमानो(उत्पाट्यमानो)दकरजोरजोऽन्धकारं, वरफेनप्रचुरधवलाऽनवरतसमुत्थिताट्टहासं मारुतविक्षोभ्य - माणपानीयजलमालोत्पीलशीघ्रमपि च समन्ततः क्षुभितलुलितचोक्षुभ्यमाणप्रस्खलितचलितविपुलजलचक्रवाल - महानदीवेगत्वरितापूर्यमाणगम्भीरविपुलावर्तचपलभ्रमद्गुप्यदुच्छलत्प्रत्यवनिवृत्तपानीयप्रधावितखरपरुषप्रचण्ड-व्याकुलित - सलिल