________________
द्वितीय अध्ययन : मृषावाद-आश्रव
२१९
कक्कसो,असाओ, वाससहस्सेहिं मुच्चइ। न य अवेदयित्ता अत्थि हु मोक्खोत्ति,एवमाहंसु नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेज्जो कहेसी य अलिय-वयणस्स फलविवागं, एयं तं बितीयंपि अलियवयणं, लहुसग-लहु-चवलभणियं, भयंकरं, दुहकरं, अयसकरं, वेरकरगं, अरतिरतिरागदोस-मणसंकिलेसवियरणं, अलियणियडिसादिजोगबहुलं, नीयजणनिसेवियं, निस्संसं (निसेसं), अपच्चयकारकं, परमसाहुगरहणिज्जं, परपीलाकारकं परमकण्हलेससहियं, दुग्गतिविनिवायवड्ढणं पुणब्भवकरं चिरपरिचियमणु (णा) गयं, दुरुत्तं (दुरंतं) बितीयं अधम्मदारं समत्तं ॥ सू० ८ ॥
. संस्कृतच्छाया तस्य च अलीकस्य फलविपाकमजानन्तो वर्द्ध यन्ति महाभयामविश्रामवेदना दीर्घकाला बहुदुःखसंकटां नरकतिर्यग्योनि, तेन - चालीकेन समनुबद्धा आदिग्धाः पुनर्भवान्धकारे भ्रमन्ति भीमे दुर्गतिवसतिमुपगता, ते च दृश्यन्त इह दुर्गता, दुरन्ताः, परवश्या, अर्थभोगपरिवजिता, असुखिताः (असुहृदः), स्फुटितच्छविबीभत्सविवर्णाः, खर-परुष-विरक्तध्यामशुषिरा, निच्छाया, लल्लविफलवाचोऽसंस्कृताऽसत्कृताः (असंस्कृताऽसंस्कृताः), अगन्धा, अचेतना, दुर्भगा, अकान्ताः, काकस्वरा, हीनभिन्नघोषा, विहिंसा, जड़बधिरान्धकाश्च (मूकाश्च) मन्मना, अकान्तविकृतकरणा, नीचा, नीचजननिषेविणो, लोकगर्हणीया, भृत्या, असदृशजनस्य प्रेष्या, दुर्मेधसो लोकवेदाध्यात्मसमयश्रुतिवजिता नरा धर्मबुद्धिविकलाः।
अलीकेन च तेन प्रदह्यमाना अशान्तेन (असत्केन) अपमाननपृष्ठिमांसाधिक्ष पपिशुनभेदन - गुरु-बान्धव-स्वजन-मित्रापक्षारणादिकानि अभ्याख्यानानि बहुविधानि प्राप्नुवन्ति अमनोरमाणि हृदयमनोदुमगानि (दावकानि) यावज्जीवं दुरुद्धराणि, अनिष्टरुरपरुषवचन-तर्जन-निर्भत्सनदीनवचनविमनसः, कुभोजनाः, कुवाससः, कुवसतिषु क्लिश्यन्तो नैव सुखं, नैव निवृत्तिमुपलभन्तेऽत्यन्तविपुलदुःखशतसम्प्रयुक्ताः (सम्प्रदीप्ताः)। ... एष सोऽलीकवचनस्य फलविपाक इहलौकिक-पारलौकिकोऽल्पसुखो बहुदुःखो महाभयो बहुरजःप्रगाढ़ो दारुणः कर्कशोऽसातो वर्षसहस्रर्नुच्यते,