________________
द्वितीय अध्ययन : मृपावाद-आश्रव
१६३
1
अलोकाभिसंधिसंनिविष्टा असद्गुणोदीरक। श्च सद्गुणनाशकाश्च हिंसाभूतोपधातिकं संप्रयुक्तालीका वचनं सावद्यमकुशलं साधुगर्हणीयमधर्मजननं भणन्ति अनभिगतपुण्यपापाः पुनश्चाधिकरणकियाप्रवर्तका बहुविधमनर्थमपमर्दमात्मन परस्य च कुर्वन्ति, एवमेव जल्पन्तो महिषान् शूकरांश्च साधयन्ति घातकानाम्, शशकप्रश करोहितांश्च साधयन्ति वागुराणां, तित्तिरवर्त्तकलाव कांश्च कपिञ्जल • कपोत कांश्च साधयन्ति शाकुनिकानां, झषमकरकच्छपांश्च साधयन्ति मात्स्यिकानां, शंखकान् शंखांकान् ) क्ष ुल्लकांश्च साधयन्ति मकराणां (मार्गिणां), अजगर - गोनस मण्डलि दर्वीकरान् मुकुलिनश्च साधयन्ति ( व्यालपिनां ) व्यालपानां, गोधा - सेहक- शल्यक-शरटकांश्च साधयन्ति लुब्धकानां गजकुलवानरकुलानि च साधयन्ति पाशिकानां शुक-बहिण- मदनशाल-कोकिल - हंसकुलानि सारसांश्च साधयन्ति पोषकानां वधबन्धयातनं च साधयन्ति गौल्मिकानां, धनधान्यवेत कांश्च साधयन्ति तस्कराणां, ग्रामाकरनगरपत्तनानि साधयन्ति चारिकाणां पारघातिक पथिघातिकांश्च साधयन्ति ग्रन्थिभेदानां कृतां च चौरिकां नगरगुप्तिकानां, लाञ्छन-निर्लाञ्छन- ध्मान दोहन-पोषण - वञ्चनदुवन वाहनादिकानि साधयन्ति बहूनि गोमतां (गोमिकानां), धातुमणिशिला ( मणशिला) प्रवाल - रत्नाकरांश्च साधयन्ति आकरिणां, पुष्पविधि फल विधि च साधयन्ति मालिकानां, अर्घमधुकोशकांश्च साधयन्ति वनचराणां यंत्राणि विषानि मूलकर्माक्षपण (आहित्य) (आवेधन ) आभियोग्यमंत्रौषधिप्रयोगान् चौरिकापरदारगमनबहुपापकर्मकरणमवस्कन्दा ग्रामघातिका वनदहनतडागभेदनानि बुद्धिविषय-विनाशनानि वशीकरणादिकानि भयमरणक्लेशद्वेषजननानि भावबहुसंक्लिष्टमलिनानि भूतघातोपधातकानि सत्यान्यपि तानि हिसकानि वचनान्युदाहरन्ति पृष्टा वा अपृष्टा वा परतृप्तिव्यावृताश्च असम क्षितभाषिण उपदिशन्ति-उष्ट्रा गोणा गवया दम्यन्ताम्, परिणतवयसो अश्व हस्तिना गवेलक- कुक्कटारच कोयन्तां, क्रापयेत च विक्रीणीध्वं पचत च स्वजनाय, दत्त पिबत, दासो- दास-भूतक- भागिनश्च शिष्याश्च प्रेष्यकजनः कर्मकराश्च किंकराश्चैतं स्वजनपरिजनश्च कस्मादासते, भार्याश्च भवतः कुर्वन्तु कर्म, गहनानि वनानि क्षेत्र खिलभूमिवल्लराणि उत्तूणधन संकट नि दह्यन्ता, सुधन्ताञ्च वृक्षा, भिद्यन्तां यंत्रभाण्डादिकस्योपधेः कारणाय बहुविधस्यार्थाय वो दूयन्तां पोड्यन्ताञ्च तिलाः, पाचयत च इष्टका मम गृहार्थ, क्षेत्राणि कृषत कर्षयत च, लघु ग्रामाकरनगरखेटककर्वटादानि निवेशयत, अटवी
,
,
-