SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १६२ श्री प्रश्नव्याकरण सूत्र चैव चौर्यकरणं परदारसेवनं वा, सपरिग्रहपापकर्मकरणमपि नास्ति, न नैरयिकतिर्यङ मनुजानां योनिः, न देवलोको वाऽस्ति,न चाऽस्ति सिद्धिगमनम् अम्बापितरौ न स्त:, नाऽप्यस्ति पुरुषकारः, प्रत्याख्यानमपि नास्ति, नाऽप्यस्ति कालमृत्युश्चाहन्तश्चक्रवतिनो बलदेवा वासुदेवा न संति, नैव सन्ति केऽपि ऋषयो, धर्माधर्मफलं च नाऽप्यस्ति किञ्चिद् बहुकं च स्तोकं वा । तस्मादेवं विज्ञाय यथा सुबहु इन्द्रियानुकूलेषु सर्वविषयेषु वर्तध्वम्, नास्ति काचित्र क्रिया वाऽक्रिया वा, एवं भणन्ति नास्तिकवादिनो वामलोकवादिनः । इदमपि द्वितीयं कुदर्शनमसद्भाववादिनः प्रज्ञापयन्ति मूढाः संभूतोऽण्डकाल्लोकः स्वयम्भुवा स्वयं च निर्मितः, एवमेतदलीकं प्रजल्पन्ति प्रजापतिनेश्वरेण च कृतमिति केचित्, एवं विष्णुमयं (विष्णुकृतं) कृत्स्नमेव च जगदिति केचित् एवमेके वदन्ति मृषां-एक आत्मा अकारकोऽवेदकश्च सुकृतस्य दुष्कृतस्य च करणानि कारणानि सर्वथा सर्वैः (सर्वत्र) च नित्यश्च निष्क्रियो निर्गुणश्चानुलेपक इत्यपि चैवमाहुरसद्भावम्, यदपीह किञ्चिज्जीवलोके दृश्यते सुकृतं वा दुष्कृतं वा एतद् यदृच्छया वा स्वभावेन वाऽपि दैवतप्रभावतो वाऽपि भवति, तत्रत्थं (नास्त्यत्र) किञ्चित्कृतकं तत्त्वं लक्षणविधानं नियतिः कारिका,नियत्या कारितम्,एवं केचिज्जल्पन्ति ऋद्धिरससातगौरवपर। बहवः धर्मकरणालसाः प्ररूपयन्ति धर्मविमर्शकेन मृषा । अपरेऽधर्मतो राजदुष्टमभ्याख्यानं भणन्ति-अलिकं,चौर इति अचौर्य कूर्वन्तं,डामरिक इत्यपि चैवमेवोदासीनं, दुःशील इति च परदारं गच्छतीति मलिनयन्ति शीलकलितमयमपि गुरुतल्पगः, अन्य एवमेव भणन्त्युपध्नन्तो मित्रकलत्राणि सेवन्ते, अयमपि लुप्तधर्मः,अयमपि विश्रम्भघातकः पापकर्मकारी अकर्मकारी अगम्यगामी, अयं दुरात्मा बहुभिः पापकैयुक्त इत्येवं जल्पन्ति मत्सरिण, भद्रके वा गुणकीर्तिस्नेहपरलोकनिष्पिपासा । एवं ते अलिकवचनदक्षाः परदोषोत्पादनप्रसक्ता वेष्टयन्ति, अक्षतिकबोजेन आत्मानं कर्मबन्धनेन मुखारयःअसमीक्षितप्रलापिनो निक्षेपानपहरन्ति, परस्यार्थे ग्रथितगृद्धा अभियुञ्जते च परमसत्कः, लुब्धाश्च कुर्वन्ति कूटसाक्षित्वं, असत्या अर्थालीकं च कन्यालीकंच भूम्यलोकं च गवालीकं च गुरुकं भणन्त्यधरगतिगमनं, अन्यदपि च जातिरूपकुलशीलप्रत्ययं मायानिपुणं (निर्गुणं) चपलपिशुनं परमार्थभदकमसत्कं विद्वष्यमनर्थकारकं पापकर्ममूलं दुष्टं दुःश्रुतमज्ञानं निर्लज्ज लोकगर्हणीयं वधबन्धपरिक्लेशबहुलं जरामरणदुःखशोकनिम्म (नेम) मशुद्धपरिणामसंक्लिष्टं भणन्ति,
SR No.002476
Book TitlePrashna Vyakaran Sutra
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyanpith
Publication Year1973
Total Pages940
LanguageHindi
ClassificationBook_Devnagari & agam_prashnavyakaran
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy