________________
८४१
संवैवेदान्तसिद्धान्तसारसंग्रहः. स्वस्वरूपे मनस्थानं अनुष्ठानं तदिष्यते । करणत्रयसाध्यं यत् तन्मृषा तदसयतः ॥ ८३८ विनिषिध्याखिलं दृश्यं स्वस्वरूपेण या स्थितिः । सा सन्ध्या तदनुष्ठानं तदानं तद्धि भोजनम् ॥ ८३९ विज्ञातपरमार्थानां शुद्धसत्त्वात्मनां सताम् । यतीनां किमनुष्टानं स्वानुसन्धि विनाऽपरम् ॥ ८४० तस्मात्कियान्तरं सक्त्वा ज्ञाननिष्ठापरो यतिः । सदात्मनिष्ठया तिष्ठेत् निश्चलस्तत्परायणः ॥ ८४१ कर्तव्यं स्वोचितं कर्म योगमारोदमिच्छता। आरोहणं कुर्वतस्तु कर्म नारोहणं मतम् ॥ ८४२ योगं समारोहति यो मुमुक्षुः क्रियान्तरं तस्य न युक्तमीपत् । क्रियान्तरासक्तमनाः पतयसौ ताळद्रुमारोहणकर्तृवद्भवम् ॥८४३ योगारूडस्यं सिद्धस्य कृतकृयख्य धीमतः । नास्येव हि बहिर्दृष्टिः का कथा तत्र कर्मणाम् । दृश्यानुविद्धः कथितः समाधिस्सविकल्पकः ॥
. शब्दानुविद्वसविकल्पः. शुद्धोऽहं बुद्धोऽहं प्रसग्रूपेण निससिद्धोऽहम् । शान्तोऽहमनन्तोऽहं सततपरानन्दसिन्धुरेवाहम् ॥ आयोऽहंमनायोऽहं वामनसा साध्यवस्तुमात्रोऽहम् । निगमवचोवेद्योऽहं अनवद्याखण्डबोधरूपोऽहम् ॥ विदिताविदितान्योऽहं मायातत्कार्यलेशशून्योऽहम् । केवलढगात्मकोऽहं संविन्मात्रस्सद्विभातोऽहम् ॥ अपरोऽहमनपरोऽहं बहिरन्तश्चापि पूर्ण एवाहम् । अजरोऽहमक्षरोऽहं निसानन्दोऽहमद्वितीयोऽहम ॥ ८४८
(४४