________________
१९०
सर्ववेदान्तसिद्धान्तसारसंग्रहः. भूयो जन्माद्यप्रसक्तिर्विमुक्तिः क्लेशक्षसां भाति जन्माद्यभावः । क्लेशक्षसा हेतुरात्मैकनिष्ठा तस्मात्कार्या ह्यात्मनिष्ठा मुमुक्षोः॥८२७ क्लेशास्स्युर्वासना एव जन्तोर्जन्मादिकारणम् । ज्ञाननिष्ठामिना दाहे तासां नो जन्महेतुता ॥ ८२८ वीजान्यग्निप्रदग्धानि न रोहन्ति यथा पुनः। . ज्ञानदग्धैस्तथाक्लेशैः नात्मा सम्पद्यते पुनः ॥ तस्मान्मुमुक्षोः कर्तव्या ज्ञाननिष्ठा प्रयत्नतः । निश्शेषवासनाक्षसै विपरीतनिवृत्तये ॥
ज्ञाननिष्ठायां कर्मानुपयोगः. ज्ञाननिष्ठातत्परस्य नैव कर्मोपयुज्यते । कर्मणो ज्ञाननिष्ठाया न सिद्धयति सह स्थितिः ॥ ८३१ परस्परविरुद्धत्वात् तयोभिन्नस्वभावयोः । कर्तृत्वभावनापूर्व कर्म ज्ञानं विलक्षणम् ॥ देहात्मबुद्धविच्छित्यै ज्ञानं कर्म विवृद्धये । । अज्ञानमूलकं कर्म ज्ञानं तूभयनाशकं ॥ ज्ञानेन कर्मणो योगः कथं सिध्यति वैरिणा । सहयोगो न घटते यथा तिमिरतेजसोः ॥ निमेपोन्मेषयोऽपि तथैव ज्ञानकर्मणोः । प्रतीचीं पश्यतः पुंसां कुतः · प्राचीविलोकनम् । प्रयप्रवणचित्तस्य कुतः कर्मणि योग्यता ॥ ८३५ ज्ञानैकनिष्ठानिरतस्य भिक्षोः नैवावकाशोऽस्ति हि कर्मतन्त्रे । तदेव कर्मास्य तदेव सन्ध्या तदेव सर्वं न ततोऽन्यदस्ति ।। ८३६ बुद्धिकल्पितमालिन्यक्षाळनं स्नानमात्मनः । तेनैव शुद्धिरेतस्य न मृदा न जलेन च ॥ ८३७