________________
आत्मवोधः ज्ञातृज्ञानज्ञेयभेदः परे नात्मनि विद्यते । चिदानन्दैकरूपत्वाद्दीप्यते स्वयमेव तत् ॥ ४१ ॥ एवमात्माऽरणौ ध्यानमथने सततं कृते । उदिताऽवगतिज्वाला सर्वाज्ञानेन्धनं दहेत् ॥ ४२ ॥ अरुणेनेव बोधेन पूर्व सन्तमसे हृते । तत आविर्भवेदात्मा स्वयमेवांशुमानिव ॥ ४३ ॥. आत्मा तु सततं प्राप्तोऽप्यमाप्तवदविद्यया । तन्नाशे प्राप्तवद्भाति स्वकण्ठाभरणं यथा ॥ ४४ ॥ स्थाणौ पुरुषवद्भान्सा कृता ब्रह्मणि जीवता । जीवस्य तात्त्विके रूपे तस्मिन्दृष्टे निवर्तते ॥ ४५ ॥ तत्त्वस्वरूपानुभवादुत्पन्नं ज्ञानमअसा । अहं ममेति चाज्ञानं बाधते दिग्भ्रमादिवत् ॥ ४६ ॥ सम्यग्विज्ञानवान्योगी स्वात्मन्येवाखिलं स्थितम् । एकं च सर्वमात्मानमीक्षते ज्ञानचक्षुषा ॥४७॥ आत्मैवेदं जगत्सर्वमात्मनोऽन्यन्न किं चन । मृदो यद्ववटादीनि स्थात्मानं सर्वमीक्षते ॥ ४८ ॥ जीवन्मुक्तिस्तु' तद्विद्वान्पूर्वोपाधिगुणांस्यजेत् । स सच्चिदादिधर्मत्वात् भेजे भ्रमरकीटवत् ॥ ४९ ।। हते. म यथा. विद्यते. जीवन्मुक्तस्तु. ताद्विद्यात्पू ; यो विद्वान्पू. ' सञ्चिदानन्दधर्मत्वं भजेद्भ.
*अनाद्यविद्यापरिकल्पितपूर्वोपाधीन् देहमनोबुद्धयादीन् गुणान् सत्त्वादीन् परित्यजेदिति यत् तदेव जीवन्मुक्तिरित्युच्यते । एवंभूतावस्थावान् सच्चिदादिगुणवत्त्वात् साक्षाद्ब्रह्म भेजे प्राप्नोतीत्यर्थः ॥ इति विश्वेश्वरकृतटीका.
-