SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ आत्मबोधः निषिद्धय निखिलोपाधीन् नेतिनेतीतिवाक्यतः । विद्यादैक्यं महावाक्यैर्जीवात्मपरमात्मनोः ॥ ३०॥ आविद्यकं शरीरादि दृश्यं बुद्बुदवत् क्षरम् । एतद्विलक्षणं विद्यादहं ब्रह्मेति निर्मलम् ॥ ३१ ॥ देहान्यत्वान्न मे जन्मजराकार्यलयादयः । शब्दादिविषयैस्सङ्गो निरिन्द्रियतया न च ॥ ३२॥ अमनस्त्वान्न मे दुःखरागद्वेषभयादयः । अप्राणो ह्यमनाश्शुभ्र इसादिश्रुतिशासनात् ॥ ३३ ॥ निर्गुणो निष्क्रियो निसो निर्विकल्पो निरञ्जनः । निर्विकारो निराकारो निसमुक्तोऽस्मि निर्मलः ॥३४॥ अहमाकाशवत्सर्वं बहिरन्तर्गतोऽच्युतः । सदा सर्वसमास्सिद्धो निस्सङ्गो निर्मलोऽचलः ॥ ३५ ॥ निसशुद्धविमुक्तैकमखण्डानन्दमद्वयम् । ससं ज्ञानमनन्तं यत्परं ब्रह्माहमेव तत् ॥ ३६ ॥ एवं निरन्तरकृता ब्रह्मैवास्मीति वासना । हरसविद्याविक्षेपान् रोगानिव रसायनम् ॥ ३७॥ विविक्तदेश आसीनो विरागो विजितेन्द्रियः। भावयेदेकमात्मानं तमनन्तमनन्यधीः ॥ ३८ ॥ आत्मन्येवाखिलं दृश्यं प्रविलाप्य धिया सुधीः । भावयेदेकमात्मानं निर्मलाकाशवत्सदा ॥ ३९ ॥ रूपवर्णादिकं सर्वं विहाय परमार्थवित् । परिपूर्णचिदानन्दस्वरूपेणावतिष्ठते ॥ ४० ॥
SR No.002469
Book TitleShankarbhagwatpadiya Prakaran Prabandhavali Chaturth Samput
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1899
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy