SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ देवीपुराणम् योगद्वारेण यतयो युक्तात्मानो दृढ़बताः । ओंकाररथमारुह्य गच्छन्ति परमां गतिम् ॥४॥ योगद्वारमतीतानां नान्यो लोको विधीयते । यद्गत्वा न निवर्तन्ते प्रासादा'च्छंकरस्य च ॥५॥ यथा पथि हितं मार्ग गमनायोपपद्यते । तद् ब्रह्ममयं तत्त्वमैश्वर्यायोपपद्यते ॥६॥ तस्य ब्रह्ममयं तत्त्वं भित्त्वा मनसि वर्तते । अवशस्यापि सततं तस्य सिद्धिर्न दूरतः ॥७॥ येन येन हि भावेन मनः संयुज्यते नरणाम् । तेन तन्मयतां याति विश्वरूपो मरिणर्यथा ॥८॥ इष्टद्रव्यं यथा कश्चित् प्रणष्टमिव चिन्तयेत् । तद्वत् सुसूक्ष्मोङ्कार प्रणष्टमपि चिन्तयेत् ॥६॥ गुरुवचननियुक्ता ज्ञानविज्ञानतृप्ताः कलिकलुषवियुक्ताः सर्वधर्मानुरक्ताः । विविधगुणमहान्तं शंङ्करं वाऽनुरक्ताः प्रणवनियतचित्तास्ते कृतार्था द्विजेन्द्राः ॥१०॥ इति सनत्कुमारीये योगशास्त्रऽष्टमः परिच्छेद ५ । योगः --नवमः परिच्छेदः । चित्तोत्पत्तौ न चोत्पत्तिर्न च चित्तक्षये क्षयः । अनादिमध्यपर्यन्तः सर्वव्यापी महेश्वरः ॥१॥ भावोत्पत्तौ तयोः सङ्गमन्तःकरणपूर्वकम् । भावाभावौ तयोरेव नियोग उभयोरपि ॥२॥ न दीर्घो न चासौ ह्रस्वो न प्लुतश्च महेश्वरः । ध्यानकाले निमित्तं हि सर्वथा ह्य पचर्यते । शब्द-तत्त्वे च भावे च संज्ञायामक्षरेषु च ॥३॥ पञ्चस्वर्थेषु सततमोङ्कारमिति निद्दिशेत् । तत्त्वचिन्ताभिसंवर्धा चिन्ता मनसि वर्तते ॥४॥ मनः क्षेत्रज्ञसंयुक्त स्वशरीरे व्यवस्थितम् । शब्द स्पर्शस्तथा रूपं रसो गन्धस्तथैव च। सम्प्राप्तो नोपलभ्येत एतद् युक्तस्य लक्षणम् ।।५।। सुखदुःखञ्च मोक्षञ्च स्वशरीरेण विन्दति । शीतोष्णं नाभिजानाति एतद् 'युक्तस्य लक्षणम्' ।। शङ्ख-दुन्दुभि-निर्घोषे विविधैर्गीत-वादितैः । क्रियमानैर्न वुध्यते एतद् युक्तस्य लक्षणम् ॥७॥ ३. प्रगष्टमपि क। १. रक्तात्मोनो-ख । २. प्रसादा० ख । ४. विमुक्ता: क। ५. ये ख । ६. भावोत्पत्ती......इत्यारभ्य महेश्वरः इति यावत् पाठो नास्ति ख । ७. सम्बन्धं ख। ८. सम्प्राप्ता नोपलभ्यन्ते ख। ६. मोहञ्च स्वे शरीरे ख ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy