________________
दशमोऽध्यायः
योग :-- सप्तमः परिच्छेदः ।
ध्यायमानस्तमोङ्कारं प्रारणैर्यदि वियुज्यते । तस्य तत् परमैश्वर्यं भिन्ने देहे प्रवर्तते ॥१॥ श्रोंकाराद् भ्रश्यते चित्तं क्षिप्तं क्षिप्तं पुनः पुनः । शब्दादिभिरसम्पृक्तं भूयस्तस्मिन् नियोजयेत् ॥२॥
॥ ५ ॥
निर्विण्णस्तु युञ्जानः श्रान्तः श्रान्तः पुनः पुनः । कालेन तदवाप्नोति गुह्याद्गुह्यतरं पदम् ॥३॥ देव मानुष - तिर्यक्षु जन्तुः कर्म वशानुगः । तावद् भ्रमति संसारे यावद्योगं न विन्दति ॥४॥ निवृत्तं सर्वसङ्गषु बुद्धया चाधिष्ठितं मनः । चित्तमोङ्कारसंयुक्तं योगाय न निवर्तते अनेन क्रमयोगेण यस्योङ्काराधिवासितम् । तस्योङ्कारं परित्यज्य चित्तं नान्यत्र गच्छति ॥ ६ ॥ एकमात्रं द्विमात्रं वा त्रिमात्रं कृत्स्नमेव च । ह्रस्वं दीर्घं प्लुतं शान्तं शान्तेन मनसोद्वहेत् ॥७॥ तैलधारामिवाच्छिन्नां दीर्घघण्टानिनादवत् । श्रोङ्कारसन्ततिं कुर्याद् विशुद्ध नान्तरात्मना विशुद्धमनसा युक्तः शान्तात्मा मोहवजितः । प्रसाद्य परमं योगमक्षयं लभते पदम् ॥१॥ श्रोङ्कारेण विशुद्धात्मा परं ब्रह्माधिगच्छति । परे ब्रह्मरिण सन्ध्याय संसाराद्विप्रमुच्यते ॥१०॥ यो ज्ञात्वा बहु-विध-दोष - दुष्टमेतत् संसार सततमभिप्रवर्त्तमानम् । योगाय प्रवर्तते योगमार्गवेत्ता स भुङ्क्ते फलमतुलं शिवप्रसादात् ॥ ११॥
॥ ८ ॥
इति सनत्कुमारी योगशास्त्र े सप्तमः परिच्छेद.' ।
योगः -- अष्टमः परिच्छेदः ।
एकाग्रप्रणिधानञ्च प्रप्रमादात् तथैव च । युञ्जानस्तु सदा योगं योगद्वारं प्रपश्यति ॥ १ ॥ योगद्वारं परं गुह्यं सर्वतापप्रणाशनम् । पवित्रमतुलञ्चैव दुर्द्दर्शमकृतात्मभिः
॥२॥
न तं पश्यन्ति विबुधान तिर्यञ्चो न मानुषाः । कामभोगपरिव्यग्रा बहूपकृतकिल्विषाः ॥३॥
१. क्षिप्रं क्षिप्रं ख
४. सन्धाय प्रासंसाराद् विमुच्यते ख ।
७. सप्तमः ख ।
५५
२. संयुक्त योगाय न निवर्तते ख ।
५. दृष्टमेतं ख ।
८. त्रिदशा ख ।
३. लभते परमं पदम् ख ।
६. आत्मवेत्ताऽसौ ख ।