________________
देवोपुराणम्
ओंकारं प्रणवो ब्रह्म अक्षरं परमं पदम् । इत्येते ध्यायनोपाया' ऋषिभिः परिकीर्तिताः ॥११॥ यम-नियम-रतानां बहु-विघ्न-भयेषु च लब्ध धैर्याणाम् । भवति जयो विदुषां प्राण-वायु-धारण-लब्ध-लक्षणानाम् ॥१२॥ इति सनत्कुमारीये योगशास्त्र पञ्चमः परिन्छेदः ।
योग :--षष्ठः परिच्छेदः। यमानां नियमानाञ्च अवान्तरक्रियासु च । सर्वदिग्देशकालेषु योगाभ्यासो विशिष्यते ॥१॥ यदि स्यात् पातकं किञ्चिद् योगी कुर्यात् प्रमादतः । योगमेव निषेदेत नान्यं मन्त्रं कदाचन ॥२॥ सर्वेषामेव मन्त्रानां योगमन्त्रं विशिष्यते । तस्माद् योगः सदा सेव्यः सर्वावस्थागतैरपि ॥३॥ यस्तु कायकृतान् भोगान् ध्यायमानन्तु सेवते । अल्पवीयं हि तद्योगं योगशास्त्रेषु गहितम् ॥४॥
__ यो ध्यात्वा युजेत ध्यानं यज्ज्ञेयं यत्प्रयोजनम् ।
सर्वाण्येतानि यो वेत्ति स योगी योक्तुमर्हति ॥५॥ प्रात्मा ध्याता मनो ध्यानं ध्येयः सूक्ष्मो महेश्वरः । यत्तत् परममैश्वर्यमेतद्ध यानप्रयोजनम् ॥६॥ द्वे ब्रह्मनी वेदितव्ये शब्दब्रह्मपरञ्च यत् । शब्दब्रह्मरिण निष्नातः परं ब्रह्माधिगच्छति ॥७॥ अन्तः शरीरप्रभवमुदानप्रेरितञ्च यत् । वागुच्चार्य श्रोत्रवृत्ति शब्दब्रह्म तदुच्यते ॥८॥ शब्द ब्रह्म परं ब्रह्म तस्मिन् क्षीणे यदक्षरम् । सदा तं मनसा ध्यायेद् यदीच्छेच्छ्रयः प्रात्मनः ।। वक्तुकामो यदा वाच्यमर्थं सम्प्रति पद्यत । बुद्ध यहङ्कारसंयुक्तो तथा ध्यानं समाचरेत् ॥१०॥ उपलब्धिः स्मृतिर्ध्यानं सङ्कल्पः प्रणवं प्रति । कल्पना भावना चिन्ता ध्यानमित्यभिधीयते ॥११॥
पवनविरहितो यथा प्रदीपः स्थित इव लक्ष्यते निश्चलस्वभावः । विषयविरहितं तथा हि चित्तं स्थितमिव लक्ष्यतेऽमितप्रवृत्ति ॥१२॥
इति सनत्कुमारीये योगशास्त्र षष्ठः परिच्छेदः ।
१. ध्यानिनोपायान् रु । ४. ध्याता ख० ।
२. पञ्चमः ख । ५. योगमहति ख ।
३. कामकृतान् ख । ६. षष्ठः ख ।