________________
दशमोऽध्यायः
५३
सन्दिग्धः सर्वभूतेषु सर्वलोकजुगुप्सितः । पुण्यान् देशांश्चरेन्नित्यं समलोष्ठाश्मकाञ्चनः ॥७॥ सकृद्भेक्ष्यं दिवा सेवेद्रात्रौ च स्थण्डिले वसेत् । परिपूताभिरद्भिश्च नित्यं कुर्यात् प्रयोजनम् ॥८॥ सन्निधानं न कुर्वीत सर्वावस्थोऽपि भिक्षुकः । सन्निधानकृतैर्दोषैर्यतिः सञ्जायते कृमिः ॥६॥ सर्वदुःखप्रतीकारं नैव कुन्नि कारयेत् । उपेक्षया वा क्षपयेदथ शीघ्रमुपक्रमेत् ॥१०॥ ग्रीष्महैमन्तिकान् मासानष्टौ भिक्षुविचक्रमेत् । दयार्थं सर्वभूतानामेकत्र वर्षणामुषेत्' ॥११॥ अनिवृत्ते च न ऋतौ पुनस्तत्र प्रतिवसेत् उत्सृष्टतेल वसनो ह्य पपन्नभेक्ष्यो। भक्ष्यवृत्ति रव्यक्तलिंगी विचरेत् पृथिव्याम् यत्रास्तमेति रविरावसथः पथः स तप्स्यति ॥१२॥
. इति सनत्कुमारीये योगशास्त्र चतुर्थः परिच्छेदः ।
योग :--पञ्चमः परिच्छेदः । शून्यागारे गवां गोष्ठे वृक्षमूले चतुष्पथे । नदीतीरे श्मशाने वा देवतायतनेषु च ॥१॥ अप्रच्छन्ने निवाते च निःशब्दे जनजिते । असंसक्त शुचौ देशे योग-दोष-विवजिते ॥२॥ स्नात्वा शुचिरुपस्पृश्य प्रणम्य शिरसा भवम् । योगाचार्यान् नमस्कृत्य योगं युञ्जीत योगवित् ।। पद्मकं स्वस्तिकं वापि स्थालिकं जलिकं तथा । पोठार्ध चन्द्रदण्डञ्च सर्वतोभद्रमेव च ॥४॥
आसनं रुचिरं बद्ध वा ऊर्ध्वकाय उद्ङ्मुखः । नान्य पद्मार्जालं कृत्वा निश्चलः सुसमाहितः ॥५॥ इन्द्रियाणीन्द्रियार्थेभ्यः सर्वेभ्यो विनिवर्तयेत् । सर्वसङ्गान् परित्यज्य आत्मन्यात्मानमाधयेत् ॥६॥ उत्तमान् मध्यमान् मन्दान् सग स्त्रिविधांस्तथा । प्राणायामान् शनैः कुर्यात् कुम्भरेचकपूरकान् ।७।
प्राणायामर्दहेद्दोषान् धारणाभिश्च किल्विषम् ।
प्रत्याहारेण विषयान् घ्यानेनापीश्वरान् गुणान् ॥८॥ गायत्र्या योगसिथं जपं कुर्यात् समाहितः । वाचिकं बाह्यजप्तं वा'. भक्त्या मानसमेव च ॥६॥ जप्यन्तु चिन्तयेन्नित्यं न च शून्यो भवेद्विजः । स्थित्वा कालान्तरं किञ्चिदोमित्येतदनुस्मरेत् ॥१०॥
३. तस्य ख। ६. यतनेऽपि ख।
१. वर्षां वसेत् ख । ४. चतुर्थः खः । ७. योगाचार्य ख। ९. नाभ्यां० ख ।
२. चेल० ख । ५. अयं पाठो नास्ति ख । ८. स्थलिक पनिक तथा ख । १०. वाऽप्युपांशु, ख ।