SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ देवीपुराणम् अव्यूहिका अवष्टब्धाः सर्वे निरवयवाश्च ते। भूतप्रेतस्य' लिङ्गाश्च प्रधानपुरुषेश्वराः ॥३॥ त्रिगुणं प्रसवं धर्ममङ्ग भोग्यमचेतनम् । अस्वतन्त्रमशुद्धश्च प्रधानमिति चोच्यते ॥४॥ निगु गौ चेतनौ' शुद्धावुभौ प्रसवमिगौ। ज्ञानत्वमथ कर्तृत्वं भोक्तृत्वमुभयोरपि ॥५॥ अनेकगुग सम्पूर्णः प्रोच्यते गुणवृद्धिभिः । सापेक्षोऽदर्शकारी च प्रसर्वज्ञो ह्यसर्वकृत् ॥६॥ एकः पतिः समः पूर्णो अप्राप्तो गुणवृद्धिभिः । निरपेक्षो दर्शकारी सर्वज्ञः सर्वकृच्छिवः ॥७॥ अस्वतन्त्रमिदं सर्व जगत् स्थावरजङ्गमम् । यत् साङ्ख्यानाञ्च बुध्यन्ते रुद्रमायाविमोहिता ॥८॥ अनन्तशक्तिर्भगवान् सर्वयोगेश्वरेश्वरः । पशूनामर्थसिद्ध्यर्थं सर्वार्थेषु प्रवर्तते ॥६॥ कारणात् सर्वभूतानां संसारपरिवतिनाम् । ईश्वरस्याप्रमेयस्य प्रवृत्तिमृषयो विदुः ॥१०॥ अग्रं दुष्टं तामसानां विधत्ते रजसा दुःखं राजसानां विधत्ते । परमं सौख्यं सात्विकानां विधत्ते कर्मापेक्षा हीश्वरस्य प्रवृत्तिः ॥११॥ इति सनत्कुमारीये योगशास्त्र तृतीयः परिच्छेदः । योग :-चतुर्थः परिच्छेदः१२ । यावच्छरीरं ध्रियते यावबुद्धिर्न हीयते । तावज् ज्ञानञ्च योगश्च सेवेद्व राग्यमेव च ॥१॥ इहैव परमं दुःखं परत्र परमं सुखम् । तस्माद् दुःख प्रहाणार्थ योगधर्म समाचरेत् ॥२॥ धृतिमान् सर्वतत्त्वज्ञोऽप्रमादी नियमे स्थितः। परं3 वैराग्यमास्थाय ध्यानयोगपरायणः ॥३॥ जितेन्द्रियो जितप्राणो जितनिद्रो जिताशनः१४ । जितश्रमो जितद्वन्द्व स्वल्पमात्रपरिग्रहः ॥४॥ अनिविण्गोऽप्रतिष्ठञ्च निर्ममो निरहकृतिः । निरामिषो निरपेक्षो निर्द्वन्द्वो निष्परिग्रहः ॥५॥ अहिंसकः सत्यवादी शुचिः सन्तुष्ट एव च । अक्रोधनो धर्मचारी'५ गुरुभक्तो ह्यकम्पन:१६ ॥६॥ १. अोतप्रोतव्य० ख। २. चेतसौ ख । ३. ज्ञातृत्वमथ ख । ४. अनेकपशु० ख । ५. सुसम्पूर्णो ख। ६. सर्वहृच्छिवः ख। ७. ये संख्यानाव-ख ८. कारुण्यात् ख। ६. अग्रयं दुःखं ख। १०. धर्माधर्मादीश्वरस्य ख। ११. इत्याचे देव्यवतारे तृतीयोऽध्यायः । १२. अयं पाठोनास्ति । ख । १३. इहत्र ख । अमुम् इति क पुस्तके पाठान्तरम् । १४. जितासनः ख। १५. ब्रह्मचारी ख। १६. ह्यकल्मष: ख।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy