________________
दशमोऽध्यायः
योग :--द्वितीयः परिच्छेदः । अविशेषा विशेषेभ्यः कारणत्वात् पराः स्मृताः । इन्द्रियेभ्यश्च तेभ्यश्च अहङ्कारो विशिष्यते ॥१॥ अहङ्कारात् परा बुद्धिः सर्वतश्चाग्रजो महान् । महतः परमव्यक्तमव्यक्तात् परमः परः ॥२॥ सर्वकारणिभिगू ढर्यस्यान्तो नोपलभ्यते । तच्च विंशतितमं तत्वं पुरुषादीश्वरः परः ॥३॥ यः श्रेष्ठः सर्वभूतानां कारणानाञ्च कारणम् । तमीशानं शिवं ज्ञात्वा नरो निर्वाणमर्हति ॥४॥ अष्टौ प्रकृतयो ज्ञेया विकाराश्चैव षोडश । कार्यञ्च कारणञ्चैव द्वारा द्वारित्वमेव च ॥५॥ विपर्ययो ह्यशक्तिश्च तुष्टिः सिद्धिरनुग्रहः । सुखं दुःखञ्च मोहश्च प्रमाणान्यतराणि च ॥६॥ दवमष्टविधं ज्ञेयं तैर्यग्योन्यञ्च पञ्चधा । सर्वमेकञ्च मानुष्यमेतत् संसारमण्डलम् ॥७॥ तत्त्वसर्ग भावसर्ग भूतसर्गञ्च ये विदुः। ईश्वरं पुरुषञ्चैव विद्वान् स खलु उच्यते ॥८॥
तत्पक्षको यस्तु विविक्त बुद्धिजितेन्द्रियो नित्यमहिसकश्च । विज्ञाय साङ्ख्यं परमञ्च योगं योगाभ्यासात् सर्वदुःखान्तमेति ॥६॥
इति सनत्कुमारीये योगशास्त्र द्वितीयः परिच्छेदः ।
__ योग :--तृतीयः परिच्छेदः''। ईश्वरः पुरुषो व्यक्तः येऽर्थाः प्रागपि सूचिताः। तेषां साधर्म्यवधर्म्यमुपदेक्ष्यामि तत्त्वतः ॥१॥ सवसूक्ष्माद्यनुत्पन्ना:११ सर्वे सर्वगताश्च ते१२ । सर्वे नित्या ह्यकम्पाश्च सर्वे संसर्गमिणः ।२।
५. परं निर्वाणमच्छति ।
१. अयं पाठो नास्ति ख ।
२. सर्वतत्त्वाग्रजो ख। ३. तत् षडविंशतिमत्तत्त्वं ख ।
४. स्रष्टा ख । ६. लिङ्ग प्राणाष्टकं ज्ञेयं गुणांश्च सह वृत्तिभिः ।
निमित्तं नैमित्तिकञ्च सञ्चरात् प्रतिसञ्चरम् । अव्यक्तञ्चव व्यक्तञ्च अनित्यं नित्यमेव च । अचेतनं चेतनञ्च प्रभोग्यं भोग्यमेव च ।। इदमधिकं पञ्चद्वयम् ख । क पुस्तकस्य पाठान्तरेऽपि । ७. सङ्गम् ख।
८. उपेक्षको यश्च विरक्त० ख । १०. इति पाठो नास्ति ख। ११. ह्यनुत्पाद्या ख ।
६. द्वितीयः ख । १२. ये ख।