________________
५०
देवीपुराणम्
ब्रह्मोवाच ।
सनत्कुमारं वरदं कोटिसूर्यसमप्रभम् । मेरुपृष्ठाश्रितं दृष्ट्वा सर्वभूतनमस्कृतम् ॥१०॥ प्रणम्य शिरसा तस्मै योगाचार्यांय नारदः । परिपृच्छति यत्नेन सुसूक्ष्मं योगमुत्तमम् ॥११॥ भगवन् ! श्रोतुमिच्छामि तन्मे कथय सुव्रत ! । केनोपायेन तद्वयोगं प्राप्यते ऋषिसत्तम ! ॥ १२ ॥ तस्मै प्रोवाच भगवान् सर्वशास्त्रविशारदः । शृणु नारद वक्ष्यामि योगं संक्षेपतस्तव ॥१३॥ पुष्पभूतेषु शास्त्रेषु मधुवत् सारमुद्धृतम् । योगधर्मं प्रवक्ष्यामि नमस्कृत्वा महेश्वरम् ॥१४॥ ज्ञानाद् भवति वैराग्यं वैराग्याद् धर्मसञ्चयः । धर्माच्च योगो भवति योगान्माहेश्वरा गुणाः ॥ १५॥ पूर्व ज्ञानागमं कृत्वा विरक्तो' धर्ममाचरेत् । अतिप्रसङ्गो' ज्ञानेषु न कार्यः सिद्धिमिच्छता ॥१६॥ धर्मः प्रयत्नतः कार्यो योगिनान्तु विशेषतः । नास्ति धर्मादृते योग इति योगविदो विदुः ॥१७॥ यथादेशं यथाकालं यथाद्रव्यं यथाक्रमम् । यथोपदिष्टः कर्त्तव्यो धर्मो धर्मफलार्थिभिः ॥ १८ ॥ न सुखानि च धर्मश्च नाधर्मश्चासुखानि च । सुखार्थी वा त्यजेत् धर्मं धर्मार्थो वा त्यजेत्सुखम् ॥१६॥ वरं नोपार्जितो धर्मो न चैवापरिरक्षितः ।
तस्मात् कृस्त्नस्य धर्मस्य कर्त्तव्यं परिरक्षरणम् ॥२०॥
3
अन्यथा क्रियते धर्मो अन्यथा चोपदिश्यते । कर्त्तव्यश्चोपदेष्टव्यो धर्मो धर्मपरायणैः ॥ २१ ॥ . सर्वधर्मान् परित्यज्य यतिधमं समाचरेत् । यतिधर्मपरिभ्रष्टो श्रधर्मफलमश्नुते ॥२२॥ यतिधर्मस्य सद्भावः श्रूयतां गुणदोषतः । श्रप्रमादात् परा सिद्धिः प्रमादान्नारकी ध्रुवम् ॥२३॥ पूर्वं धर्मं चरित्वा व्रत-यम-नियमैः शास्त्र दृष्टैरुपायै भूयो मानुष्यभावे हल शकट- घटैः क्लेशयित्वा शरीरम् । दृष्टान् भुञ्जीत भोगान् विशसन' रचितान् प्रायशो धर्मलब्धान् पश्चादू भिन्ने 'तु देहे प्रविशति नरकं दुष्कृतञ्चोपभुङ्क्ते ॥२४॥ इति सनत्कुमारीये योगशास्त्र े प्रथमः परिच्छेदः । *
१. निरुक्तो क । ४. विषमधु० ख ।
२. अभिप्रसङ्गो ख ।
३. कृतस्य ख ।
५. इत्याद्ये देव्यवतारे सनत्कुमारीय प्रयोगे प्रथमः ख ।