________________
दशमोऽध्यायः ।
प्रकरणम्- (प्रथमः परिच्छेदः)
शक्र उवाच ।
नन्दिना पदमालाया देव्यास्तैर्भुवि विक्षिता' ॥
तस्याः साधन - वीरोक्तं कथं तां नारदो लभेत् ॥१॥
ब्रह्मोवाच ।
सनत्कुमारं वरदं तपसा धूतकल्मषम् । मम पुत्रं महाप्राज्ञं शिवभावेन भावितम् ॥२॥ तेन श्राराध्य नन्दीशं शिवतुल्यं महाव्रतम् । परिपृछ्रय यथान्यायं योगशास्त्रमनुत्तमम् ॥३॥ शिवसिद्धान्तमार्गेण वेदशास्त्रागमेन च । यथा तु प्राप्यते योगस्तथा मे ब्रूहि तत्त्वतः ॥४॥ स च योगं समासाद्य कृतबुद्धिर्महामुनिः । विद्याञ्च प्राप्तवांस्तस्य नन्दीशस्य प्रसादतः ॥५॥ तथा तेनापि सा विद्या संयोगान्नारदाय च । श्राराध्यमानः कालेन दत्तवान् मुनिपुङ्गवः ॥६॥ येन योगेनासौ योगी सविद्योऽप्यजरामरः । तपते ध्रुवमार्गस्थः शिवयोगप्रभावतः ॥७॥
शक्र उवाच ।
येन योगेन सा विद्याव्रतहोनेऽपि सिध्यति । तच्च देव समाख्याहि" येनैव सर्वतो भवेत् ॥८॥ कि योगः केन वा देवः प्राप्यते सुरपूजित । एतदेव महाभाग्यं श्रोतुमिच्छामि तत्त्वतः ॥६॥
+ शुक्र ख ।
१. देव्या ते तु विधिश्रुता-ख ।
४. श्रयं पाठो नास्ति ख.
७. तपति क ।
६. महाभाग ख ।
२. साधनं वीरोक्त ख ।
३. स ख ।
५. आराध्यमाना ख ।
६. मुनिसत्तमे ख । ८. यच्च देव समाख्याहि येन सर्वान्महो भवेत् । ख ।