________________
૪.
नवमोऽध्यायः
महामांसेन त्रिमधुनाक्तेन प्रत्यद्भुतानि कर्माणि करोति । श्रन्यकल्पोक्तानि च करोति । अथर्ववेदविहितानि करोति । साक्षाद् भैरवैः देवैः सिद्धेस्तु परिपूज्यते ॥ ७१ ॥
एवं देवी महाविद्या चामुण्डा पदमालिनी । निबद्धा' शतमष्टाग्रकर्मणां ह्य पपादिनी ॥७२॥ कुरुते कोटिधा कर्मयोगयुक्तस्य पार्वति ।
१. निरुद्धा ख ।
३. पूजति ख ।
सकृदुच्चारणाद् विद्या ब्रह्महत्यां व्यपोहति ॥७३॥
सर्वतीर्थाभिषेकन्तु सर्वव्रतफलानि च 1 जपेन श्रवरणाद्वाथ सर्ववर्णेषु यच्छति ॥७४॥ सर्वोपसर्गशमनी सर्वव्याधिनिवारिणी । प्रभक्ताय न दातव्या यस्तु देवीं न पूज्यते ॥७५॥ इति श्रीदेवीपुराणे " पदमालिनी - मन्त्रविद्या" नाम नवमोऽध्याय: ४ ।
+
२. कुर्वते ।
४. पदमालिनी महाविद्या समाप्ता ख।
据