________________
'दशमोऽध्यायः
योगकर्मणि युक्तस्य विशेषाद् विघ्नकारकाः । उपसर्गाःप्रवर्तन्ते तान् जित्वा प्राप्यते सुखम् ॥८॥ उपसर्गेऽपि सृष्टस्य' नैव सिद्धिर्न साधनम् । तस्माद् विघ्नाः सदा हेयाः शास्त्रदृष्टेन कर्मणा ॥६॥ प्रतिमा श्रवणञ्चैव वेदनं स्पर्शनं तथा । भ्रमो मोहस्तथा वर्त्त उपसर्गाः प्रकीर्तिताः ॥१०॥
ध्यपगत-कलुषाणां नित्य-स्नानोदकानां शिवमतिपरमार्थो जप्यभक्ष्येन्धनानाम् । गुरुवचन-रतानां नित्य-धर्मोद्यतानां दर्शनमपि पुण्यं योगमार्गस्थितानाम् ॥११॥
इति सनत्कुमारीये योगशास्त्र नवमः परिच्छेदः ।
योग :-दशमः परिच्छेदः। धारणां सम्प्रवक्ष्यामि कर्तव्या या प्रयत्नतः । मनसो हृद्यवस्थानं धारणेत्यभिधीयते ॥१॥ यथा चक्षुः प्रकाशेन दृष्टरूपाणि पश्यति । तद्वत् सूक्ष्मयोगेन युक्तस्तत्त्वानि पश्यति ॥२॥ निर्मलत्वाद् यथादर्श प्रतिबिम्बानि पश्यति । तद्वद् विशुद्ध मनसि निष्कलं ब्रह्म पश्यति ॥३॥ यथा ज्ञानप्रकाशेन सुसूक्ष्मार्थान् प्रपश्यति । तद्वत् सुसूक्ष्ममोङ्कारं प्रणिधानेन पश्यति ॥४॥ निर्गुणं. मनसा ग्राह्यमनौपम्यं महाद्य तिम् । प्रधानपुरुषेशानं सर्वभूतपति शिवम् ॥५॥ स्थित स्थिनेन मनसा शुद्ध शुद्ध न चेतसा। परापरस्वरूपेण यत्सूक्ष्ममुपनयेत् पुनः ॥६॥ "तच्चित्तस्तन्मयो युक्तस्तन्निष्ठस्तत्परायणः । दोषैर्योगाग्निनिर्दग्धः शिवं पश्यति शाश्वतम् ॥७॥ अनुत्पाद्य सर्वगतं सर्वज्ञ सर्वकारणम् । “अक्षतेश्वर्य-सम्पन्नं देवमेकं महेश्वरम् ॥८॥ यं दृष्ट्वा लभते सिद्धि समानगुणलक्षणम् । यं दृष्ट्वा जन्म-मोहाभ्यां नैव संयुज्यते पुनः ॥६॥ एष संक्षेपतो योगो व्याख्याने चास्य विस्तरः। महर्षीनामनुकम्पार्थमुद्धृतो मम सूनूना ॥१०॥
यत्प्राप्य नारदः सिद्धो विद्या विद्यार्थ तत्त्वतः । ' इदममृतपदं शिवप्रसादात् प्रवचनमुक्तवान् सनत्कुमारः।
अनधिगतमपि करोति सिद्धि परमिह विन्दते स रुद्रतत्त्वम् ॥११॥ इति सनत्कुमारीये योगशास्त्र दशमः परिच्छेदः । इत्याद्य देवीपुराणे दशमोध्यायः ।'
१. उपसर्गोपसष्टस्य ख उपसर्गाय इति क पुस्तकस्य पाठान्तरे । २. परमाग्नौ ग। ३. नवमः ख । ४. तस्मात्तत क.। ५. प्रकृतैश्वर्य० ख ।
६. यं प्राप्य ख । ७. अनधिगत क। ८. इत्याद्य देव्यवतारे सनत्कुमारीयं दशाध्यायिकं योगशास्त्रं समाप्तम् ।