________________
एकादशोऽध्यायः।
ब्रह्मोवाच । प्राप्तयोगो यदा शत्रुर्नारदो मुनिसत्तमः। तदासौ जपते विद्यां विधिना शिवभाषिताम् ॥१॥ एवं प्राप्ता पुरा' वत्स सिद्धा विद्या च नारदे । तदा स साधयेच्छत्रुस्तस्या वरप्रसादतः२ ॥२॥
शक्र उवाच।
एवं विद्या यदा सिद्धा कथं मर्येषु सा गता । एतदिच्छामि विज्ञातु प्रसादात् प्रब्रवीहि नः ॥३॥
ब्रह्मोवाच । पूर्व मया महाप्राज्ञ! सृष्ट्यर्थ परमेच्छया। विद्यानां याचितः शम्भुस्तथा चाप्यपराजितम् ।
भविष्यानाञ्च कार्याणां मन्वन्तरयुगादिषु ॥४॥ सा मया कर्तु कामेन दत्ता विद्या प्रजापतेः । तत अङ्गिरसे तेन अङ्गिराश्च बृहस्पते ॥५॥ गुरुणा सवितुर्दत्ता तेन मृत्योः प्रकाशिता । मृत्युना चापि इन्द्रस्य वशिष्ठस्य ततो गता ॥६॥ वशिष्ठेनापि सा दत्ता तथा सारस्वते पुनः । सारस्वतास्त्रिधामाय विधामा त्रिवृषाय च ॥७॥ त्रिवृषेण भरद्वाजे अन्तरीक्षस्य प्रागता । अन्तरीक्षेण बह्व.चे बह्व.चस्तांरुणेश्च ददौ ॥८॥ तस्यारुणेन बलजे तेनापि च कृतञ्चये । कृतश्चयेन ऋणजे भारद्वाजेन प्राप्तवान् ॥६॥ भारद्वाजेन सा दत्ता गौतमस्य महामुनेः । गौतमादुत्तम प्राप्ता उत्तमिश्च'हर्य ने ॥१०॥ हर्यर्चने' पुरोधा तु तेन वाजश्रवाय'3 च । वाजश्रवास्तथा सोमे सोमाच्छुष्मादनोऽलभत् ॥११॥ शुष्मादनात् तृणविन्दुस्तृणविन्दोस्तरक्षुकः । तरक्षौ शक्तिणा प्राप्ता शक्तेः पराशरेण तु ॥१२॥
१. सुरा ख। ४. विद्य मां ख । ७. प्रौशनेन ख। १०. दुत्तमे ख। १२. हर्यय॑वात् ख।
२. तस्य वरप्रभावतः ख। ५. च अपराजिताम् ख । ८. त्रय्यारुणे ख। ११. उत्तमे च हर्यर्चने ख । १३. च-ख ।
- ३. मातु ख ।
६. प्रौशनसे ख। ६. त्रयारुणेन धनजे ख ।
१४. जतु ख ।