________________
दशमोऽध्यायः
५६
पराशराज्जातुकर्णो' जातुकर्णात् तथा पुनः । द्वैपायनेन सम्प्राप्ता एवं मत्] समागता ।
विद्या लोकोपकाराय' दृष्टादृष्टप्रसाधनी ॥१३॥ नारदेन तथा शक्र जप्ता विद्या महोदया। यया सम्मोहितो वत्स असुरः सह मन्त्रिणा ।
तथा मति समाधाय गिरिकन्या पति प्रति ॥१४॥
शक्र उवाच ।
पदमाला महाविद्या सुरासुरविमोहिनी । एतत् कार्यकरी विद्या तथा चाप्यपराजिता ॥१५॥
सूचिता हि न सा उक्ता किं वीर्या कथमागता? ।
__ ब्रह्मोवाच । यथा देवास्तथा दैत्या उभावेतौ व्यवस्थितौ । अनादिदेवस्तु तथा यथा सृष्टिस्तथा क्षयः ॥१६॥ पूर्वमासीन्महाबाहो हुताग्निर्नाम दानवः । मम होमावसाने तु उत्पन्नः सुरमईकः ॥१७॥ माञ्चापश्यत् तथा सो वै लयः कर्तुं समुद्यतः । तपसा महता तेन तोषितोऽहं पुरन्दर ॥१८॥ वरं ब्रूहि मया सोक्तो याचितञ्च तदा विभो । जयामि त्रिदशान् सर्वान् सविष्णन् सपरन्दरान् ।१९। तथेति स मया उक्तस्तथासौ पृथिवीतले । गतो द्वीपं महावाहो शाकं सर्वमनोरमम् ॥२०॥ स च तत्र समाः स्थित्वा दश पञ्च च वासव । उद्वाहिता तदा तेन कालपुत्रस्य पुत्रिका ॥२१ तस्य पुत्रो वज्रदण्डश्चण्डतुल्य पराक्रमः । तेन द्वीपाधिपान् जित्वा दिवमुत्सहते जये ॥२२॥ निर्जित्य सर्वदेवांस्तु तथा विष्णुमभिद्रवत् । तस्य केतो स्थितो ध्वाङ्क्षः सर्वकेतुभयङ्करः ॥२३॥ तथा मया महादेवं तोषयित्वा त्रिलोचनम् । वराय वरयाञ्चक्रे विष्णोः केत्वर्यतस्तदा ॥२४॥ वरं ब्रूहि शिवस्तुष्टो यत् ते हृदि व्यवस्थितम् । मया स याचितो देहि केतुं दैत्यनिवारणम्" ।
। विष्णोस्तु यत् सदा देव साहाय्यं विजयावहम् ॥२५॥ तेन किङ्किणिशोभाढयं घण्टाचामरमण्डितम् । विचित्रपीठकोपेतं शतसूर्यसमप्रभम् ॥२६॥
१. जतु । ४. अनादिवरं ख। .. तथा ख। १०. निबर्हरणम् ख।
२. लोकोपचाराय ख । ५. तदा ख । .. ८. केतुस्थितो ख । ११. विचित्रपटकोपेतं ख ।
३. विमोहनी ख। ६. याचितोऽहं ख। ६. त्रिशूलिनम् ख।