________________
देवीपुराणम्
'सुषेण उवाच । त्वमेव सर्ववाक्यानां' नयानामुपदेशिनी । तथापि किञ्चिद् वक्तव्यं न त्वेव तच्च मन्यसे ॥२५॥ सर्वनीतिगतः पारो देवद्विजनदेज्यकः । शुद्धमतिश्च मतिमान् कथं स विपथे व्रजेत् ॥२६॥ अकस्मादद्य रात्रौ च नारदाद्वाक्यचोदितः । तस्य इच्छाकरो भूत्वा अस्माकञ्च नहीच्छति ॥२७॥ यथामात्येन मत्तेन विभूतिविफला तव । येन वृद्धास्त्रियः सेवी कृतोवैद्याः पुरोहिताः ॥२८॥ एवं तस्य मतिर्भ त्वा नारदपथगा शुभे । वयं त्वञ्च तथागच्छ प्रत्यक्षमनुशास्यताम् ॥२६॥ अवमन्य तथा द्वाःस्थं देवी मन्त्री गतौ हि तम् । संक्र द्धलोचनोऽपश्यत् न च वाचाभ्यभाषत ।३०।
चन्द्रमतिरुवाच । यदापि भवतो नास्मान् वाचायामपि भाषते । तथापि किश्चिद् वक्तव्यं न सपत्नीभयं मम ॥३१॥ न चाविज्ञातशीलासु स्त्रीषु भोग्यागमः क्वचित् । विषकन्याभयं घोरं पापजं श्रूयते परम् ॥३२॥ तपस्विव्यञ्जकं १ 'नग्नचण्डभीरूचरानुगान् । यज्ञविप्रविदां राजा विश्वस्तः सीदतेऽचिरात् ॥३३॥ रजकी तान्त्रिकी चक्री वरुठी पुष्पग्रन्थिनी । कैवर्ती ईक्षणी वृद्धा न हि स्थाप्या गृहे चिरम् ।३४। सूतिका' वधिरा यन्त्री कुलाली स्त्रीजने यथा । विनाशं कुरुतेऽवश्यं धर्मराजोऽपि तद्वशः ।३५॥ पानं "कन्यासनं शय्या वाहनन्तु विचारितम् । भुजानो महदाप्नोति मृत्युकृच्छ्र तथा गदम् ॥३६॥ १५न हि अनिच्छती बाला भुञ्जनीया कदाचन। न च तामुद्वहेन्नाथ६ शृणु पूर्वकथामिमाम् ॥३७।
त्वञ्च वेत्सि यथान्यायं तथापि न शृणु लोकतः१८ ॥३८॥ क्रौञ्चद्वीपे पुरावृत्तं राजा नाम्ना सुमेधसः । तस्य पत्नीसहस्राणि अष्टावष्टाभवत् किल ॥३६॥ सर्वसम्पत्तिसम्पन्नः समस्तबलवाहनः । भुञ्जन् पृथ्वीमिमां नाथ ससमुद्रां सकाननाम् ॥४०॥
१. सुसेन ४. बुद्धिश्च क ग । ७. ज्यश्यन् क । ९. शापजं क ग। ११. कन्दुकी क ख ग १४. कल्पासनं क ग । १७. स्पष्ट कग।
२. वक्तृणां ग।
३. यत्धेवं क। ५. कुतो० क ग।
६. नारदः पथगः क । ८. नयतौ ह्यस्मान्वाचमानापि भाषयेत् ग । १०. नग्नचण्डीभीरूवनान्तगात् क । १२. बन्धिका क। १३. देश्यन् क । देशान् क १५. नाहं क ।
१६. तामुद्वायेन्नाथ क । १८. लोकय क ग।