________________
४०
देवीपुराणम्
तव सर्वाणि शास्त्राणि विद्या-प्रान्विक्षिकादयः । वसन्ति उदरे यस्य स कथं मुच्यते' पथः ॥११॥ अमात्यवशगं राज्यं वशो राजा सुमन्त्रिषु । तन्मते भुञ्जते पृथ्वीमन्यथा तु विपर्ययः ॥१२।। त्वया तात सभस्तेयं पृथ्वीपातालदेवराट् । नाथेन भवता प्राप्ता स कथं न शस्तव ॥१३॥ यदा हि व्यसनासक्तं नृपं बुद्धिविपर्यये । विज्ञाय स तदामात्यः प्राकृतं दर्शपेद्भयन् ॥१४॥ तव भिन्नाः सुता भार्याः सामन्ताः प्रवरा नृपाः । मदीये त्वं मते वर्तन् स्वयं तन्नहि वेत्स्यसि ।१५॥ त्वं पुनः सर्वभावेन तस्याज्ञामनुवर्तकः । न हि इष्टं सदामात्यं राज्ञो राज्यं कथं भवेत् ॥१६॥ यस्य समुत्सवा वैद्या अमात्या नृपवाक्कराः । न हि राज्यं स्थिरं तस्य कपिमालेवमूर्द्ध गा ॥१७॥ "अमात्यप्रवरं राज्यं भूता द्वाःस्था अवेक्षकाः । महानसः स्त्रियः शय्यापानताम्बूलदायकाः ।१८। एते हि यस्य सद्वृत्ताः स राजा-सुखभुक् सदा । विभिन्नभिद्यते तात सिकता इव सेतुषु ॥१६॥ धर्माधर्मस्य संसिद्धिः स्वामिनः सुखमिच्छताम् । भृत्यानां भवत तात अन्यथा १ निरयास्तव ।२०। ऋजुव्रणत्वक्सारमहावंशा१२ यथा गृहम् । धारयन्ति सदा राज्यं मन्त्रिगो दण्डपालकाः ॥२१॥ राज्ञाञ्च शब्दमात्रैव अभिमानं यथा मम । राज्यश्चामात्यलेख्यानां भोग्यं तात न चान्यथा ॥२२॥
स्त्रीस्वरूपा यदा किञ्चिन्मया वाणी न संस्कृता । तथापि मम क्षन्तव्यं बालानां न हि 'रुष्टतात् ॥२३॥ एवं १४सबान्धवं मन्त्रं १'चन्द्रबुद्धिः १६प्रहृष्टवान् प्रोवाच संस्तुतं वाक्यं ७ देवी त्वं देवतास्वपि ॥२४॥
१. च्यवते क.ग।
२. स कथं नो वशो भवेत् क.। ३. यथा क.। ४. सततामाद्य: क।
५. वर्त्त स्वयं त्वं न हि वत्स्यसे ख । ६. तदा राज्ञो वाक्यं वाक्यकरं भवेत् क.। न हि दृष्टं सदामात्यं राज्ञो वाक्यकरं भवेल ख. ।
न हि इष्टं सदा वाक्यं राज्ञो वाक्यकरं भवेत् ग। ७. सांवत्सराः क. ग।
८. मूद्धनि क। ६. अमात्याः प्रवरा क ।
१०. लेखकाः क ग। ११. निव यान्तुः व: क ग । १२. वृहत्वंशा क ग।
१३. रूप्यतां क ग । रूप्यतां ख। .. १४. सवासवं क ग। .
१५. चन्द्रवृद्धिः क ग। १६. प्रपृष्टवान् क ग। . १७. देव त्वं देवता अपि क ।