SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ब्रह्मोवाच । नारदकथनाच्छक्र व्याजधर्मरतोऽसुरः । न स पूजयेत्' विप्रान् न वेदान् न वा अच्युतम् ॥१॥ न मन्त्रिद्वाःस्य वाक्यानि न च पत्नीसमं वसेत् । सर्वं धर्मपथं त्यक्त्वा बलवाहन सञ्चयम् ।२। पानसङ्गमगेयादिमिच्छन् द्यूतनिषेवणम् । उत्कण्ठितमना जातः परपत्नीरतः सदा ॥ ३ ॥ स्वकान्तां विषवन्मेने न च धर्मं प्रतीक्षते । एक एव सुहृद् विप्रो नारद ऋषिसत्तमः ॥४॥ येन मे विषयासक्तिर्दत्ता कामसुखप्रदा । कतरेण विधानेन श्रानयामि मुदा' त्वहम् ॥५॥ परपत्न्यः शुभा भद्राः पीनोन्नतपयोधराः । सत्यमेव हि धर्मस्य फलं राज्यं महोदयम् ॥ ६ ॥ तथा च पुरग्रामाणि गृहाः पत्न्यः सुशोभनाः । देवविद्याधरा यक्षा ब्रह्मविष्णुमहेश्वराः ॥७॥ सदाकाममुदासक्ताः स्त्रियः पानमनोऽनुगाः । तथा वयञ्च कुर्वामो" यथा भूधरपुत्रिकाम् ॥ ८ ॥ नारदकथनात् सत्यं भुञ्जामि सुरदुर्लभाम् । ब्रह्मोवाच । विज्ञाय नारदाच्छक घोर तन्मतिवर्त्मगाम् । अमात्यसहितो वाग्मी चन्द्रबुद्धिरमन्त्रयत्" ॥॥ चन्द्रमतिरुवाच । यथा तात मम स्वामी चन्द्रशोभ महात्मनः । तथैव त्वं महामात्यो मम भर्त्तानुपालकः ॥ १०॥ १. सम्पूजयते क । ४. बलं क । नवमोऽध्यायः । ७. काममनासक्ताः क । ६. घोरं तन्मतिवत्मंणस् इति ख. । २. न च देवान् क. ग । ५. कलं वाहनमेष च क । 5. कुर्वाम् क। कुर्यारण : इति ख १०. राशी क ग । ३. मन्त्रीशस्य क । ६. सदा क । पुस्तक पाठान्तरे । ११. असंद्रवन् ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy