SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽध्यायः एवं पूर्वोपदेशन्तु नन्दिना परिपृच्छतः' । विष्णुतत्त्वं' कामतत्त्वं शिवतत्त्वं तथापरम् ॥४६॥ इत्येवं कपिलः प्राह मुनीनां प्रवरो मुनिः । द्विरष्टवर्क कन्याञ्च पीनोन्नतपयोधराम् ॥४७॥ यः सदा कामयते पुमानमरत्वं स गच्छति ॥४८॥ स्थूलां शिथिलदुर्गन्धा केकरां वा कटां शठीम् । रोगियों व्याधितां मूकामयोग्यां मन्दगामिनीम् ।।६। गत्वा पुमानवाप्नोति व्याधि पुंस्त्वविनाशनम् । तस्मात् सर्वप्रयत्नेन स्त्रियोऽन्वेष्या महामते ॥५०॥ तदायत्ता इमे प्राणाः शुक्रोजोबलमेव च । बलञ्च परमं शुक्र तश्च जीवं मतं बुधैः ॥५१॥ तच्च शुभाबलायोगाद वर्धते असुराधिप । स हृष्टः स्फीतः पुरुषस्तस्मात् सर्वक्षयो भवेत् ॥५२॥ एवं धर्मार्थकामानां न हानिर्भवतेऽसुर। जम्बुद्वीपे महाबाहो विन्ध्ये भूधरपुत्रिका ॥५३॥ द्विरष्टवर्षकन्या सा सर्वलक्षणसंयुता । योग्या राजंस्त्वदीयस्य विभवान्तःपुरस्य च ॥५४॥ तामानय यथा शक्त्या त्रैलोकस्य विभूतये। पातालं मूलभूतन्तु सारं पृथ्वी ससागरा ॥५५॥ शाखार्शलवनोपेता दिवं पुष्पं विनिद्दिशेत् । अप्सरस्तत्फलं विद्धि ताः कन्याः फलबोजगाः ॥५६॥ एवं स नारदादेशात् व्याज-धर्म-प्रवर्तितः । चकार सम्मति शक्र कन्यामुद्वहनोपरि ॥५७॥ इति श्रीदेवीपुराणे देव्यवतारे घोरप्रलोभनं नामाष्टमोऽध्यायः५ ॥८॥ २. विषतत्त्वं क ग। ३. शठाम् क ग। १. पूर्वापरे शम्भुनन्दिना परिपृच्छितः क ग। ४. सद्वृत्त वितरः क सद्वपुविरतः पुरुषः ग। ५. इत्याचे देव्यवतारे घोरप्रलोभनम् क. ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy