________________
देवीपुराणम् हिम-चन्दन-संयोगाच्छमेन्न विषयान्मुने । कदली-दल-कलार-मृणाल-कमलोत्पलः ॥२६॥ हिम-चन्दन-कर्पूरै कामाग्निज्वलते तु तैः । ऋणं दानेन शमते दहनोभ्युदकेन च ॥३०॥ शत्रवो घातमाना हि क्षीयन्ते ह्यविचारणात् । एतेषां घातनं ब्रह्म स्तन्निबोध सुखावहम्' ॥३१॥ शब्द-स्पर्श-रसरूप-गन्ध-वागिन्द्रियास्तथा । पाणि-पादपा यूपस्था: संयतास्तु सुखावहाः ॥३२॥ पतङ्ग-मृग-मत्स्येभ-कोटाद्याश्च पतत्रिणः । एककविषयासक्ताः सर्वे मृत्युवशं गताः ॥३३॥ यः पुनः संहतान् सेवेद् विषयान् विषयी नरः। स पतेन्महदेश्वर्याच्छिन्नमूल इव द्रुमः॥३४॥ स्त्रियः पानं दिवास्वप्नं तथा वादिननर्तनम् । द्यू ताटनमृगा गेयं कामजां निन्दनं परे ॥३५॥ "दण्डर्वाचा ईर्षासूयाक्रोधपशुन्यसाहसम् । अर्थानां दूषणं व्याधि अष्टकोऽयं विनाशकृत् ॥३६॥ देवा विद्याधरा यक्षाः किन्नरोरगमानुषाः । पशवः पक्षिणः सर्वे विषये निधनं गताः ॥३७॥ एवं विवेकमासक्त बुद्ध वा घोरं नराधिप । धर्मव्याज समास्थाय विषयः संन्निवेश्यताम् ॥३८॥
नारद उवाच ।
निर्जित्य शत्रुसैन्यानि क्षिति धर्मग पालयेत् । अनाथामुद्वहेत् कन्यां वंशजां न च दोषभाक् ॥३६॥ धर्मस्य साधनं राज्यं राज्यादेश्वर्यमुत्तमम् । भुञ्जयन् पुनरन्याश्च स्त्रियो रत्नविभूषिताः ॥४०॥ मद्यमैथुनमांसस्य न दोषः स्वप्रवृत्तितः' । 'मित्रागमसुखालापाः स्त्रीणां सम्भोगहेतवः ॥४१॥
नित्यं चेष्टा मनोऽभीष्टाः कथा गेयाः सुखप्रदाः ॥४२॥ 13सोधपृष्ठमृदुन्नाथ रश्मयः सुखहेतवः । उष्णोदकसुखस्नानं पयःपानं वरस्त्रियः ॥४३॥ वाजीकरणयोगांश्च नन्दिकेश्वर उक्तवान् । भुक्त्वा नारीशतं पुंसः सौभाग्यं परमाप्नुयात् ॥४४॥ सहस्रण महाभोगी ह्ययुतेन धनेश्वरः । लक्षेग कामदेवत्वं कोटिना परमं पदम् ॥४५॥
१. तन्निरोध: सुखावह क ग ।
२. पादपद्मरूपस्थश्च क ग । ३. पुमान् ख । ४. कामजानि दृशा परम् क ।
५. दण्डबाधा ईर्ष्या क ग । ६. प्रात्मभूषणक्रोधोऽर्थों क। अर्थदूषण क्रोधोऽर्थ इति ख पुस्तकस्य पाठान्तरे। ७. सुराधिप कग।
८. दोषतः क ग । ६. भुञ्जयत् सुररम्याश्च क ग ।
१०. स्वप्रवृत्तिषु क ग । ११. निद्रागम. क। १२. चित्रा क।
१३. सोधपृष्ठं दुराधर्ष क। १४. परस्त्रियः खपुस्तक पाठान्तरे ।