________________
३६
प्रष्टमोऽध्यायः
तच्छ्रत्वा दनुराजेन्द्रो नारदं द्वारमागतम् । द्वास्थं समादिशत् तूर्ण कूपजो हृष्टमानसः ॥१३॥ प्रवेशतो प्रतीहार द्विजरूपो जनार्दनः । लब्धादेशस्तदा द्वाःस्थो नारदमानयत ततः ॥१४॥ त' त्रासौ विष्णुभक्तात्मा घोरो देवद्विज प्रियः । तं प्रेक्ष्य उत्थितो राजा भूभ्यां जानुगतः शिरः ।१५ प्रणम्य भक्तिभावेन प्रपूर्यार्बोदकासनः । सुखं संविश देवर्षे इत्युक्तो नारदोऽवदत् ॥१६॥
अथ राजन् महाबाहो विषयान् मानयन् सुखम् ।
मानयस्व प्रियान् कामान् स्त्रीणां क्रीडावती सदा ॥१७॥ एतदेव फलं राजन् देवताराधनोद्भवम् । भूपतित्वं सदा भोग्याः स्त्रियो वा नवयौवनाः ॥१८॥ प्रात्मानं परमं देवं तोषणीयं तदा बुधैः । श्रूयते च महाराज देवदेवस्त्रिलोचनः ॥१६॥ ऋषिकन्याप्रक्रीडाय गतो दारुवनं किल । स च देवो महादेवः परतत्त्वार्थवेदकः ॥२०॥ सेवते विषयान् राजन् यथा सर्वेषु सः परः । तथा च भगवान् विष्णुः श्रियं वक्षःस्थले वरम् ॥२१॥ चन्द्र इन्द्र मुरा ब्रह्म सर्वे च सुखमर्थिनः । तदर्थ तप्यते धर्मफलोऽयं विषयो नृपः ॥२२॥ एवमुक्तस्ततः शक्र घोरः प्रत्यववोच तम्" । नहि “नारद" धर्मस्य “विषयान्मोक्षरणं" शुभम् ।२३
घोर उवाच । संयतास्ते "शुभा ब्रह्मन् विसृष्टा "नरकाय ते । इन्द्रियविजयो" पुमान् विनयेनोपपद्यते ॥२४॥ विनीतः सेवते लोकं तदा सम्पदमाप्नुयात् । सम्पदा'२ "धर्म भोगा" हि स्ववृत्ति-परिपालनम् ॥२५॥ तच्च सम्पालनं 3 ब्रह्मन् दृष्टादृष्टफलप्रदम् । व्याधि-मेषज-सेवायां क्षयं गच्छेदसंशयम् ॥२६॥ सेव्यमानेन्द्रिया ब्रह्मन् प्रवृद्धिमुपयान्ति हि । ज्वालामालाकुलं गेहं महापावक-दीपितम् ॥२७॥ अनेनोपशमं याति विषयाणाञ्च दीपकम् । दाहज्वरमहातापो'५ वह्निपित्तसमुद्भवम् ॥२८॥
१. दिशच्छक कुशपो द्वारिविग्रहः ।
२. यत्रा० क ग । ३. प्रपूज्याध्योदकाशनः क ग । ४. क्रीडारतः क ग।
५. भोज्याः क ग। ६. बादकः क ग । ७. स्त्रियं रक्षस्थलेधरत् क ।
८. तदानु क। ९. विषयान्नुप क । तदर्थे तप्यते धर्माफलोऽयं विषया मप ग। १०. एवमुक्त्वा ग।
११. प्रत्यभ्यरोचयत् क ग। १२. सम्पदो धर्मभोगाय क ग।
१३. सम्पालयन्स। १४. विषयान्नात्मदीपकम् न ।
१५. वह्निः पित्तसमुद्भवम् क समुद्भवः ग ।