________________
नवमोऽध्यायः
तावत् कालेन महता परिक्रामन् परं किल । द्वीपं शाकाह्वयं नाथ तस्मिन् क्रीडन् यथाविधि । ४१ । सोऽशृणोत् पुष्करे कन्यामृषे रूपसमन्विताम् । सर्वलक्षणसम्पन्नां सर्वाभरणभूषिताम् ॥४२॥ तावत् स तत्रगो नाथ न पश्येदृषितापसाम् । सा कन्या भद्रनामा च तामुद्वाहसमुत्सुक: ॥४३॥ कामार्त्ता विह्वलीभूतो न विन्द्यादपरं क्वचित् । अनिच्छमानापि तथा गृहीता पाणिना करे |४४ | सा कन्या भद्रनाम्नी च रुदन्तीं न मुमोच सः । तथा स तां भुञ्जयित्वा गतो द्वीपं नराधिपः । शाकाह्वमागतस्तावत् पुष्करे मुनिसत्तमः ॥४५॥
तेन सा विमना दृष्टा रुदमाना तु कन्यका । पप्रच्छ सर्वमाख्यातं यथावृत्तं सुरेश्वर ॥४६॥ श्रुत्वा क्रोधसमाविष्टः शशाप तमृषिर्न पम् । सुमेधसस्ततो यातो नरकं भूतलादभूत् ॥४७॥ एवं नाथ न सपत्न्यशङ्कया "असुरेश्वर । "वारयामि च त्वां स्वामिन् तव राज्यसुखार्थिनी ॥४८॥ ब्रह्मोवाच । नारदेन वचः श्रुत्वा घोरबुद्धिविवर्धनम् । मोहना जप्यते विद्या पदमालेति भैरवा ॥४६॥
४२
शक्र उवाच ।
कथं सा भैरवा विद्या किंवीर्या किपराक्रमा । जप्तव्या केन विधिना कथं प्राप्ता च शङ्करात् । विद्या मोहनशीला या ससुरासुरमानवान् ॥५०॥ ब्रह्मोवाच ।
श्राराध्य नन्दिना पूर्वं देवदेवं जगद्गुरुम् । योगाभ्यासेन महता तदा तस्य ददर्श ताम् १२ ॥५१॥ १३ दृष्ट वा देवेश्वरं शम्भु पप्रच्छेमं वरं शृणु । तथा तेन समाचिन्त्य विघ्नपापप्रणाशनीम् ४ ॥५२॥ पदमालां महाविद्यां सर्वदेवनमस्कृताम् । याचयामि सुरेशानमुमादेहार्धहारिणम् ॥५३॥ नन्दिकेश्वर उवाच ।
यदि मां वरदो देवस्तुष्टो वा त्रिदशेश्वरः । तदा लोकहितार्थाय पदमालां प्रयच्छ नः ॥ ५४ ॥
२. स शृण्वन् क ग ।
१. नाम क ग । ४. न चिन्त्यादपरं क्वचित् ग ।
६. स कन्यां रमणार्थी तु रुदन्तींञ्च न मोचते ख ।
६. सुमेधाः स बलो जातो नरकं क ग ।
११. च त्वां क ग ।
८. दृष्ट्वा क ग ।
१०. ससुरेश्वरः क ।
१३. भूत्वा देवेश्वरः शम्भुः पत्रच्छेयं क ग ।
१४. विनाशनम् क ग ।
३. मुद्वाहन क ग ।
५. वाम क । रामनाम्नी ग । ७. विमला क ।
१२. तम् क ग ।
१५. धारिणम् क।