________________
सप्तमोऽध्यायः ।
ब्रह्मोवाच ।
एवं पूर्व त्वया देवी तोषिता सुरसत्तम । सा सर्वकार्याकार्येषु शङ कराद् यदवाप्स्यसि ॥१॥ तत्र गत्वा महादेवं परापरतनुद्भवम् । तोषयामास गोविन्दो घोरदण्डवधक्षमम् ॥२॥ एवं पूर्वस्तदा विष्णु स च ब्रह्मा सुरोत्तमः । गतवान् यत्र देवोऽसौ योगिनां ध्यानगोचरः ॥ ३॥
तदा ह्यङ त्रियुगस्याधः पेततुद्विजमाधवौ । मूर्तिभूतं शिवं साक्षाच्छक्तिवामाङ्गर भूषणम् ॥४॥ त्रिनेत्रं पश्यते विष्णुर्ब्रह्मा विष्णु प्रपश्यति । एवं विचित्रतां तस्य मत्वा ध्यानेन शूलिनः ॥५॥ भूत-भव्यं भविष्यार्थः प्रभूरेष पराक्रमः । नाम सङ्कीर्तनाद्यस्तु स्तवेनंनं तुतोष च ॥६॥ जय सूक्ष्म परानन्त कारणत्रयतवे 1 ध्यानगम्य पराध्यक्ष साक्षिभूत गुणत्रये ॥७॥ जय विजित सद्भाव ह्यस्माकं सुरसत्तम । जय ह्याकाश-वाय्वग्नि-तोय-धात्री च मूर्तये ॥ ८ ॥ जय तन्मात्र - कर्माख्य - बुद्धीन्द्रिय-विधातवे । जय बुद्धि-मनो- गर्व प्रधानपुरुषात्मने ॥६॥ जय माला- कला - राग-काय-विद्या-विवोधन । जय नियामकशक्ति जय विद्य े समुद्भवे ॥१०॥ " जय कालाग्निसादन्त व्याप्तिव्यापक शूलिने ।
जय घोर महाघोर कालदण्ड यमान्तक । जय अन्ध पृथुस्कन्ध खट्वा रुरुजिघांसक ॥११॥ जय काल महाकूट विषकण्ठस्थजीवे । जय दानव - विध्वंस गङ्गा-जल- जटा --धर । जय त्रिपुरदाहेश कामदाहेश शम्भवे ॥१२॥
१. पूर्व तदा ।
३. एवं विचित्यताँ तस्य सदा ध्यानेन शूलिने ग ।
४. विद्याविरोधिने क ।
५. सर्व विद्यशसम्भवे क ग । ६. इतः पूर्वं जय खट्वाङ्ग - इत्वाद्यारभ्य महात्मने - इत्यतः पाठो बिद्यते क ।
७. अणु पृथुस्यूय क ।
२. कामाङ्ग - क ग ।