________________
देवापुराणम्
जय खट्वाङ्गमालाहि भूषणानां सदाप्रिय । जय दिगवास भूतेश जय श्मशानवासिने ॥१३॥ जय साई गजचर्मप्रावृताय महात्मने । जय त्रिशूलहस्ताय कर्णापूरित इषवे ॥
जय वासुकिशङ्खाब्ज-अनन्तकृतमेखल ॥१४॥ जय गौरीस्तनस्पर्शरोमरोमाञ्चधूसर । जय गम्य महीकम्प देवदेव भवोद्भव ॥१५॥ जय डिण्डि' महाकाल शम्भुशङ्कर ईश्वर । जय रुद्र हर घोर सत्यबास' सदाशिव ॥१६॥ जय पुरुष वक्त्रेश' परमेष्ठिभवाय च । जय पशुपते सर्वेश' भीम उग्र नमो नमः ॥१७॥ एवं स्तुतस्तदा देवो ब्रह्मा विष्णुश्च तुष्टवान् । वरं वर हरे ब्रह्मन् यत्ते मनसि वाञ्छितम् ॥१८॥ यथावृत्त कथा ज्ञाप्य घोरदण्डं निवर्हय । एवमुक्तस्तदा तेन' ईशः सञ्चिन्त्य अब्रवीत् ॥१६॥
या सा प्राद्या परा शक्तिोगनिद्रा महात्मनाम् ।।
सा तु सिंह समारुह्य विन्ध्ये क्रीडनतां ययौ ॥२०॥ तत्रस्था ह्यस्मदंशेन पराशक्तिबलेन च । ब्रह्मास्त्वं किङ्करो भूत्वा विष्णुश्च नयरूपिणा' ° ॥२१॥ प्रतिहार्यो महातेजाश्चत्वारोऽन्या महाबलाः । ऋग्यजुःसामाथर्वाणां यद्धाम यत्परं बलम् ॥२२॥ ते च वेदास्तनुस्तेषां मूर्तिमन्तो भवन्ति च । सर्वा वीणाकरा देव्यः सर्वाः पाशाङ कुशोद्यताः ॥२३॥ सितरक्तपीतकृष्णा बहुवक्त्रास्त्रिलोचनाः । दिव्यपट्टांशुकच्छन्ना दिव्याभरणभूषिताः११ ॥२४॥ कामरूपा महारूपा अणिमादिगुणैर्य ताः । हार-नूपुर-निर्घोष-मणि-वैदूर्य-च्चिताः ॥२५॥
केशै मृग-मदा-मोद-घन-नील-समप्रभः ।
वेणीबन्ध महाच्छद्म उरगैरिव पृष्ठगः ॥२६॥ अर्धेन्दुरिव ललाटनिम्नोन्नतविराजितैः१७ । निष्पावसदृशघ्राणा कर्णयुग्मे समांसले१३ ॥२७॥ नीलोत्पल-दल-प्रख्य हरिणीरिव लोचनैः । विद्रुमाकारशोभाढ्यैः पक्वविम्बोपमाधरैः ॥२८॥ कुन्द-कुड्मल-आभाष-दन्त पंक्तिः-सुशोभना । हनु-गण्डस्थल- चिबुकानौपम्य-मनोरमाः ॥२६॥
१. दण्डि क ग । ४.शवेंश क ग । ८. ब्रजेत् क। १२. विजितैः क ग ।
२. सत्यं धाम क ग । ५. तेभ्य-क। ६. ब्रह्म त्वं क। १३. युग्मेषु सासेन ग।
३. ब्रजेश-ख । ६. महात्मना क। ७. ब्रीडा क । १०. जयरूपिणा क ग । ११. भूषणाः क ग । १४. सारीणैरिव क ।