SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ देवीपुराणम् नित्यैव भाव्यते सर्वा कृतकृत्यस्य कीर्त्तना । स्तोता त्वञ्च स्तुतिस्त्वञ्च वेत्ता त्वं वेदनी च त्वम् ॥४५॥ कोयं स्तोता स्तवः कस्य क्रियते वाक्प्रलापनम् । एवम्भूतार्थभव्यैस्तु भविष्यैः पौरुषैस्तथा ॥ ४६ ॥ तुतोष परमा देवी वरदा च प्रभूदुभौ । देव्युवाच । कृष्ण ब्रह्मन् वरं याच तुष्टाऽहनुभयोरपि ॥४७॥ तदा त्वच' सञ्चिन्त्य सहाय भव सुव्रते । येषु येषु च कल्पेषु मन्वन्तरयुगेषु च ॥४८॥ तेषु तेषु पथा देवि यद्यस्मात् को भविष्यति' । कर्त त्वे स्थापने नाशे तत्तु निष्पद्यते यथा । ४६ । तत्तथेति च सा उक्त्वा परेवोपरता ह्यभूत् । कालेन स्तवमाकर्ण्य फलञ्च स्तवते कृतम् ॥५०॥ इदं यच्चकास्तोत्रं ब्रह्मविष्णु विनिर्मितम् । देवगन्धर्वयक्षो वा ऋषिवप्रोऽथ क्षत्रियः ॥५१॥ वैश्यः शूद्रोऽबला वाऽपि भक्तितः सम्पठिष्यति । शृणुयाच्चिन्तयेद्वाऽपि सर्वार्थान् प्रापयिष्यते । ५२ । न ग्रहा ँ न च कूष्माण्डा न भूता न च राक्षसाः । पिशाचाः पूतनानन्दा नागाः सर्पाश्च गोनसाः ॥५३॥ बालजा भूतजा ये च ग्रहा दुष्टा महाबलाः । शमं यास्यन्ति रोगाश्च वातपित्तकफोद्भवाः ॥५४॥ स्थावराः कृत्रिमा भौमा" विषा दन्तनखोद्भवाः । पर्साकिरोगाश्च प्रणश्यन्त्यविचारणात् ॥ ५५॥ २५ पातकाश्च शमं यान्ति ब्रह्मघातादयः कृताः । गुरुपितृसुहृद्वन्धुमाताबालाबलावधम् ॥५६॥ पातकं शमते भक्त्या श्रवणाल्लभते फलम् १० | दशानां राजसूयानामग्निष्टोमशतस्य च ॥ ५७॥ श्रवणात् फलमाप्नोति सर्वदानव्रतादिकम् । मुच्यते सर्वपापेभ्यो देव्यास्ते लीयते नरः ॥ ५८ ॥ इति श्रीदेवीपुराणे ब्रह्मविष्णुकृतः स्तवो नाम ' ' षष्ठोऽध्यायः । १. तदात्मभूश्च क, ३. तं त्वं ख । २. जयोऽस्माकं क ग ४. पुरैवोपतावभूत् क । ७. नवग्रहः नवकुष्माण्डा ग । १०. पातकं शमेत श्रवणाल्लभेत यत्फलं श्रृणु ग । ६. वरैर्वापि क । । ५. विष्णुर्ब्रह्म ८. घोरा क ग । ६. ब्रह्महत्यादयः क ११. इत्याद्ये देव्यवतारे ब्रह्मविष्णुकृतः: स्तवः क ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy