________________
चतुर्थोऽध्यायः
विष्णुरुवाच
प्रासीद् दुन्दुभिर्नामाऽसावसुराणां प्रभूत्तमः । तेन जिताः सुरा सर्वे ब्रह्मवरप्रभावतः ॥५८।। अजेयो' ब्रह्मसूर्याणां यमस्यास्माकमेव च । तदा निजित्य देवांस्तु स्वर्गाच्यावयते किल ॥५६॥ तावत् तस्य महाबाहो ईशः शैलङ्गमोऽभवत् । तदा पश्यति देवेशी शङ्करस्य तनुस्थिताम् ॥६०॥ तां दृष्ट्वा क्षोभमापन्नः कामविह्वलचेतनः । देवी समुद्यतो वक्त देवेन च 'स ईक्षितः ॥६१॥ ततः स सहसा दग्धो नेत्रजेनानलेन तु । देवदेवस्य कोपेन दानवो भस्मतां गतः ॥६२॥ सायुधः सरथः क्रूरः सपदातिः सवाहनः । सहसा भस्मीभूतं तं दष्टवा देवस्त्रिलोचनः ॥६३।। रक्तपीतासितश्यामा भष्माद्ध रितमेव च । गहीत्वा सितभस्मेन देवीञ्चाप्यवधूनयत् ॥६४।। तस्य हस्तकरास्फालाद् बन्धूननावसानतः । उद्धृता' महति वतिः सर्ववर्णकभूषिता ॥६५॥ तां तपन्ती समालोक्य उमा देवनमस्कृताम् तस्मिन् समुद्भवाच्छाया सर्वलक्षणलक्षिता ॥६६॥ द्वितीयं देवभागन्तु याचमाना महाबला । तदा उमा ददौ शापं स्मृत्वा घोरं महासुरम् ॥६७॥
गच्छ पाप दुराचार भूतलं त्वं महाबल'२ ।
तथारूपो भवेद्घोरो नील मेघ सम प्रभः ॥६८॥ महारूपो भयं दत्त्वा ससुरासुररक्षसाम् । देवेन तं तदा दृष्ट्वा किमेतद्भवतीकृतम् ॥६६॥ स एव निर्जितः शत्रुरस्माकं वधमुद्यतः । न युक्तं शत्रुपक्षस्य वृद्धि दातुं कदाचन । ७०॥ यश्च कारणद्रव्याणां सविशेषं१५ कृतं मुदा। मोचते कृपया मूढः स एव निधनं व्रजेत् ॥७१॥ निपात्य साखिल ६ सर्व मूलं यस्य न खन्यते । स एव स्याद् बली भूयो बदरी इव शोभते।७२।
३. देवस्य क ग।
८. उद्धृता क ।
१. अजयौ क ग। ४. चेतसः का ६. तं सहसा क। ६. सर्वतन्तुकभूषिता क। ११. स्वं क। १३. दद्यात् क। १५. सावशेषक। १७. साइलो भूयः बदरीरिव क।
२. तथा क। ५. देवी समुद्यतो धत्तुं क ग ।। ७. भस्माल्लवितमेव च क। १०. उमा देवनमस्कृता क। . १२. पंक्तित्रयं ग पुस्तके नास्ति १४. तु क। १६. शाखिनं क ग।