________________
देवीपुराणम्
तथा त्वमपि दुर्बुद्ध ेर्मायं विनिपातितः । देवानां विघ्नकर्ता च ऋषि- ब्राह्मण त्रासकः ॥७३॥ न युक्तं द्विजदेवानां शत्रुवर्गस्य वर्धनम् । मन्दबुद्ध े सदा बाले स्त्रीस्वभावेन वर्त्तसे ॥७४॥ इत्युक्ता शम्भुना देवी क्रुद्धा तमवलोक्य' सा । मद्भक्तिपरमो भूत्वा सर्वदेवान् जयिष्यति ॥ ७५ ॥ विष्णुभावः परो ह्येष प्रवध्योऽयं भविष्यति । कुशद्वीपपुरवासी चन्द्रशोभां भविष्यति ॥ ७६॥ सप्तद्वीपाः सपातालाः सप्त लोकाः सवासवाः । एतदाज्ञाकरो भूत्वा प्रजेयोऽयं भविष्यति ॥७७॥ निशम्य वचनं देव्या उन्मार्गगतिभाषितम् । शशाप रोषमाविश्य त्वञ्च मर्त्यं गमिष्यसि । तत्र चैष दुराचारः पतित्वं याचयिष्यति ॥ ७८ ॥
तथा कोधानलादीप्ता सा शपेतासुराधिपम् । नील मेघ निभाकारं यम महिष मिवापरम् । क्रीडमाना हनिष्यामि पञ्चानन व्यवस्थिता ॥७६॥
उवाच पिता देवी देवोऽपि च तथैव ताम् । एवं पूर्वं सुराध्यक्ष शम्भुना वज्रनिर्मितः ॥ ८० ॥ दुन्दुभेर्देहजो भूत्वा मम भक्तिपरायणः । चन्द्रशोभापुरावासी मदीयार्चासदोद्यतः 5 ॥ ८१ ॥ तस्येदं शासनं प्राप्तं ब्राह्मणैरपि दुःसहम् । किम्पुनः सर्वयत्नेन सबलो यदि दानवः । श्रागतो घोरनामाऽसौ रुद्रादीनपि संहरेत् ॥ ८२ ॥
तच्छ्रुत्वा तु हरेर्वाक्यं किं करोमि प्रभो वद । त्वया दत्तं मम स्वर्गं यज्ञा सर्वाश्च रक्षिता'" । ८३ । इन्द्राणां त्वं प्रभुः स्वामी देवानां त्वञ्च पालकः । इत्युक्ते १२ वदते विष्णुः शृणु शक्र समाहितः । तत्रागतो महाबुद्धि र्वाचस्पति बृहस्पतिः ॥ ८४ ॥
बृहस्पतिरुवाच
यस्य शासनमात्रेण सर्वे देवाः सभास्कराः । शमिता वसुयुक्ताश्च १३ वारिणा इव पावकः ||८५||
1
तस्य कः शक्यते युद्धे सबलस्य निपातितम् १४ । ब्रह्मा वा यदि वा रुद्रः साम नय विवर्जितः | ८६
१. तामवलोक्य क. । ४. तव ह्येष क । ७. रजनिर्मित ग ।
२१
१०. तथाश्रुत्वा क ग । १३. बलयुक्तापि ग ।
२. विष्णुभावपरो क । ५. क्रोधानलोद्दीप्ता क ।
८. सज्यकः क ग ।
११. यज्ञान् कुर्वंश्चरक्षितः क ग
३. कुशद्वीप पुरेऽच्चसीच्चंद्र० शोभां रमिष्यति क
६. एवं च कोपिता क ग ।
६. ब्रह्मणोऽपि ।
१२. इत्युक्तो क ग । १४. निपातनम्
।