________________
देवीपुराणम् .
१६
महाक्षोभं समास्थाय गजराजं रुरोह सः । उदयाचलसङ्काशं सिन्दूरारुणविग्रहम् ॥४३॥ घण्टाकिङ्किणीशब्दाढ्यं चामरैरुपशोभितम् । चतुर्दन्तं महानागं सुरशत्र भयावहम् ॥४४॥ आरुरोह सुराध्यक्षो वज्रपाणिर्महाबलः । मातलिञ्च पुरस्कृत्य' विश्वेदेवास्तथापरे ॥४५॥
वैष्णवा' वारुणा सौम्या ऐन्द्राश्चान्द्रास्तथैव च ।
कुबेरो धनदश्चन्द्रो वायुर्वरुण एव च ॥४६॥ श्रुत्वा देवेन्द्रसङ्ग्रामं सर्वे तत्र युयुत्सवः । आगताः क्षणमात्रण स्वायुधोद्यतपाणयः ॥४७॥ एवं ते त्रिदशाः शक्क सशक्राः सङ्गरोत्सुकाः । श्रुत्वा देवः स्वयं तत्र ह्यागतो गरुडध्वजः ॥४८॥ इन्द्रस्तु परमं देवं शङ्ख चक्र गदा धरम् । दृष्टवा पपात चरणे भक्त्या स्तोत्रेण पूजयेत् ॥४६॥
इन्द्र उवाच
नमस्ते देवदेवेश सर्वदेवमय प्रभो।
शङ्ख चक्र गदा हस्त वनमाला विभूषण ॥५०॥ श्रीवत्साङ्क महाकाय कौस्तुभोरस्कमण्डित । देवारिनाश देवेश वेदगर्भ नमोस्तु ते ॥५१॥ देवमूतिर मूर्तिश्च वेद यज्ञ फलप्रद । त्रिमूर्तिस्त्रिगतिर्देव भक्तानां भयनाशन ॥५२॥ सम मित्रायुदासीन रिपुणां कुलनाशन । त्राहि मां देवदेवेश पीतवासो जगत्पते ॥५३॥ दानवैर्बाधिता देवास्त्वामेव शरणं गताः । निजितो यमयज्ञेशो बह्निःप्तिसमन्वितः ॥५४॥
एवं त्वं भगवन् प्राप्तः किं करोमि तदादिश ।
तथा श्रुत्वा वचो विष्णुः कृपया शक्रभाषितम् ॥५५॥ प्रोवाच विहसन् देवो मा भैषीर्मम सन्निधौ । यद्यपि देवदेवेश उमा देहार्ध हारिणः ॥५६॥ आगतस्तस्य देवेन्द्र तथापि अरिर्हन्यताम् । किन्तु कारणसद्भावं कथयामि शृणुष्व तत् ॥५७॥
१. पुरस्कृत्वा क। २. ते भटा क। भल्लाटाः ख-पूस्तकस्य पाठान्तरे । . ३. चरणौ क। ४. सर्वदेवेश क।
५. वेदमूर्ति-क। ६. सममित्रारिमध्यस्थ देवारि० ख ग। ७. पीतवासा क। ८. धारिणा क। ४. परिहन्यताम् ख