SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः ततः सा दानवी सेना युद्धमाना महाहवे। दारिता यमराजेन स्वबलेन महात्मना ॥२६॥ तां भग्नां सहसा दृष्ट्वा क्रोधेन तु सुदीपितः । उत्थन् हालाहलः शक्र महाबलपराक्रमः ॥३०॥ पशुना तु सतेजेन सूर्यायुतप्रमेण च । जिघांसन् यमजां सेनां पद्मिनीमिव दन्तिनः । यमान्तकस्तथा चक्रे महामायात्मकं बली । महिषं यमभङ्गाय महिषस्य महाबलम् ॥३२॥ काले' चैव कृतान्ते' च दण्डिना विनिपातिते । एकधा दशधा चापि शतधा च सहस्रधा ॥३३॥ अयुतां लक्षकोटीनि मायावी वै विनिर्ममे । तैदृष्ट्वा धर्मराजस्तु चात्मानं शतधावृतम् ॥३४॥ वाहनास्त्राणि सन्त्यज्य गतवान् पावकी पुरीम् । दुनिरीक्ष्यां रिपु ?रस्तस्य दृष्ट्वा तु वाहिनीम् ॥३५॥ अजारुढां समस्तास्ते वहि नना सह सङ्गरम् । तं वह्नि ज्वालालक्षेण कालानलमिवोत्थितम् ।३६।। ददाह सहसा शक्र वज्रदण्डस्य वाहिनीम् । पुरी तेजस्वती' तस्य ताम्र प्राकार तोरणा ॥३७॥ स्वहस्तास्तथा' विप्रा उत्थिता बहुलक्षधा । ध्यानेन तेऽदहन् सर्वां वाहिनी' विभुघोरजाम् ॥३८॥ एवं दृष्ट्वा तथा कालो दण्डिना सर्वगेन'२ च । माया मेघ समुत्थेन वारिणा तूपशामयेत् ॥३६॥ चेतसामृतदावान्यः सर्वान् क्रूरान् प्ररोहयेत् । एवं तच्छमितं तेजो वहि नक्रोधसमुद्भवम् ॥४०॥ ववर्ष पङ्कशैवाल कदलीन्दीवराणि च । एवं तत् पावको दृष्टवा स्वसैन्यं दण्डनिर्जितम् ॥४१॥ त्यक्त्वा तेजोऽभिमानन्तु गत इन्द्रामरावतीम् । इन्द्रेण तो समायातौ'४ दृष्ट्वा यमहुताशनौ ॥४२॥ ४. वापि क । १. कालं क ग। २. कृतान्तं क ग। ३. विनिपातितं क। ५. शतधापि क। ६. मि. क। ७. दुनिरीक्ष विभु-क । ८. वहिनालाक्षेपेन क। तेजोवती क । १०. श्रुवहस्ता तथा क। ११. सर्वान् वाहिनी क। १३. चेनमामृतस्वादाक्षः सर्वान् क्रूरान् प्ररोहयत् क । १४. समायान्तौ क ग। १२. सर्वगेण क।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy