SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ देवीपुराणम् नयो हि बलवान् युद्ध े देवसम्पत्समन्वितः । तथा पुरुषकारन्तु बुद्ध्वा युध्यन्ति ये नृपाः ॥ १३ ॥ तेजयं शत्रुनाशन्तु लभन्ते प्रविचारगात् । पृथ्वी पुरवरैर्युक्ता सशैलवनकानना ॥ १४ ॥ यावज्जीवं स्थिरा तेषां येषां नीति क्रमागता । धर्मेण प्राप्य राज्यं ते धर्मांदेवजयो भवेत् ॥ १५॥ देवाश्च रुद्र-ब्रह्मन्द्र- केशवा - रवि चन्द्रमाः । २ तेषां यो योधमिच्छेत स कथं जायते सुखी ॥१६॥ न युद्धेन विना देवाः सिध्यन्ति हि क्वचित् द्विषाः । युद्धे घातं भवेद् वत्स बन्धु वर्गपरिक्षयः । १७ क्षयं याति धनं युद्धे अश्वदन्ति महाबलाः । समेऽपि पुनविषमे यत्र शङ्करकेशव ॥१८॥ काल उवाच दृष्टीविषा महाघोरा अनन्ताद्या महोरघा: । निर्जिता असुरा रक्षाः पातालतलवासिनः ॥ १६ ॥ न हि मे शक्यते जेतुं शङ्करेण महात्मना । किम्पुनर्देवराजेन ब्राह्मणेन वराकिणा ||२०|| वज्रदण्डसहायस्य मम खड्गकरस्य च । सङ्गरे को भवेच्छक्तः कालपाशेन कर्षितः ॥ २१ ॥ ब्रह्मा वा यदि वा रुद्रः सर्वदेवनमस्कृतः । श्रस्माकं निर्जिता पृथ्वी तथा पातालगोचरा" ॥२२॥ स्वामिनो दर्शनादेव दिवं प्राप्तं ततो यदा । जयस्तथा भवेत् कीर्तिः पराजयः परागतिः ॥२३॥ प्रस्थिता ग्रहशार्दूल अनुज्ञां दातुमर्हसि । एवं शुक्र समापृच्छय नभो मासे तु चोत्तरे ॥२४॥ दिशञ्चोत्तरऋक्षे च " द्वितीयायां ततो गतौ । नन्दनं तौ वनं गत्वा सर्वसैन्येन तिष्ठतः ॥ २५॥ यमान्तकः पूर्वदिशि मेरौ १२ घोरस्तु चोत्तरे । पश्चिमे वज्रदण्डस्तु कालो दक्षिणतः स्वयम् ॥ २६ ॥ एवं ते वेष्टयित्वा तु कोटिकोटिगुणेन तु । श्रारुरुहुः पुरीं याम्यां उ मेरोरुधं वमधिष्ठिताम् ॥२७॥ अनेक परिखोपेतां वैवस्वतों महोज्ज्वलाम् । तत्र ते कृष्णघोरास्या दण्डपाणिमहाबलाः । यमश्चारुह्य ४ महिषं कालपाशकरोद्यतः ॥ २८ ॥ * १. न क्रमा० क । ३. एतेषां यो धनं इच्छेत् क । एतेषां यो वधमिच्छेत्-ग । ५. केशवशङ्करा क । ६. प्रारभतो क । ४. किं पुन० क ग । ८. पातालगोरगाः क । ११. ऋक्षेण क । १४. यमश्च रुरुहे क ग । २. धर्मो देवेज्यया क । १२. मेरोर्थी • क । १७ ६. मेख । १०. मधे तु चोत्तराम् ख । १३. आरूरोह पुरी यामां ख । से ७. ब्रह्मरणा च क ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy