SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः । ब्रह्मोवाच । तथा तौ बलसम्पन्नौ वज्रकालौ महाबलौ। पृष्टवान् ग्रहराजेन्द्र भार्गवं भृगुनन्दनम् ॥१॥ भगवन्नस्मत्तात्तेन प्रेषिता विनयं' प्रति । दिशो गतास्तथा देशाः सप्तद्वीपा वसुन्धरा॥२॥ निजिताः सप्तपाताला वशे कृत्वा च तत्प्रजाः । नृपानुशासने स्थाप्य तव पार्वमिहागताः ॥३॥ केनोपायेन इन्द्रादीन् जित्वा स्वर्ग जयामहे ॥ एतदेव ममाचक्ष्व सर्वविद्याकृतश्रम ॥४॥ शुक्र उवाच जम्बूद्वीपं समस्तन्तु सप्तद्वीपा वसुन्धरा। पातालाः सुखसाध्यास्तु दिवं दुःखेन सिध्यति ॥५॥ यस्मिंस्तिष्ठति देवेशः सर्वदेवनुतो हरिः । विष्णुःसर्वांत्मको देवो ब्रह्मा वेदविशारदः ॥६॥ बृहस्पतिर्महाप्राज्ञो अर्थशास्त्रकृतश्रमः । इन्द्रो महाबलश्चैव धनदो वह्निनिऋती ॥७॥ मरूद्वायुर्यमो यत्र यत्र चन्द्रदिवाकरौ। विश्वेदेवा वसुरुद्रा ग्रह नक्षत्र तारकाः ॥८॥ न जेतुं शक्यते काल दिवं धर्मेण रक्षितम् । राजधर्मोपदेशेन भूपातालानि भुञ्जय ॥६॥ अन्यथा धर्मतः प्राप्तं राज्यं नाशमुपैति हि । मार्जारमूषिकं यद्वयुद्ध ध्वाङक्षोलूकं यथा ॥१०॥ महिषाश्वं यथा युद्ध यथा दन्तिमृगाधिप न् । एवं युष्मत्सुरैः सार्ध युद्धमेकाङ्गमुच्यते । युद्धभोगं तथा कालं देशञ्चैव न जानता। ॥११॥ 'प्रस्मद्रिपुबलाशक्ति ये युध्यन्ति नराधिपाः । आत्मनाशं वजन्त्येते नृपा नयपराङमुखाः ॥१२॥ १. विजयं क ग। २. नपा: स्वशासने क ग । ३. देवमूलो हरिः खपुस्तकस्य पाठान्तरे । ४. मरुद्वाद्यययौ क। ५. भुञ्जत क ग। ६. महन क ग। ७. युद्धमेकं समुच्यते ख पुस्तकस्य पाठान्तरे। ८. युद्धभागं क ग । समृद्धिगं तथा कालं देशञ्चैवमजान ताम्-इति ख पुस्तकस्य पाठान्तरे .. आत्म० क ग । १० आशु क ग।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy