________________
तृतीयोऽध्यायः
सहसा प्रक्षितौ' योधौ मत्तजौ बलदर्पितौ । मोहं गताः समस्तास्ते दैत्यरक्षोमहोरगाः ॥२६॥ तदाज्ञावतिनो भूत्वा शुश्रूषां कुर्वते सदा । तं जित्वा चैव पातालं गतावन्यं रसातलम् ॥३०॥ जरासिन्धुमहासिन्धुविरोचन महासुराः । ऐरावाश्वतरः पिङ्ग उरगा राक्षसास्तथा ॥३१॥ माल्यमारीच' कुम्भाख्या एवं यत्र महाबलाः। यत्र प्राप्य महाबाहू वज्रकालाख्यशासनौ.।
घोरजौ बलसम्पन्नौ सर्वशास्त्रविशारदौ ॥३२॥ प्रौशनोद्दिष्टविधिना जित्वा पातालजान् नृपान् । स्ववशे स्थापयित्वा तु आगतौ भूतलं पुनः । जम्बूद्वीपे यथा स्थित्वा मध्यदेशे उडम्बरे । पुरे यत्र महाबाहो भार्गवस्तिष्ठते सदा ।
---
इति श्रीदेवीपुराणे ब्रह्मन्द्रोपदेशे पातालादिजयो नाम तृतीयोऽध्यायः ॥३॥
१. प्रेक्ष्य ते क २. मयंजौ क। ३. जरसेन्धुर्महासेन्धुवैरोचन • क। जरसिन्धुमहासेन्धु घौरोवन
क-ग। ४. ऐरावश्वतरा । क । ५. मारीचि क ग ६. तत्र ख । ७. वै पुनः क्षिति स पुस्तकस्य पाठान्तरे। ८. तदुत्तरे क । इत्याद्य देवीपुराणे ब्रह्मन्द्रोपाख्यानम् क ग ।