________________
१४
तृतीयोऽध्यायः
एवं तां वाहिनी भग्नां दृष्टवा कालो महाबलः ।चकार गारुडी मायां वज्रदण्डोऽथ भैरवीम्॥१३॥ ते नागाः सहसा प्रक्ष्य दानवा राक्षसास्तथा । भीताः कृतप्रणामाश्च शरणं वशतां गता ॥१४॥ जित्वा पातालराजेन्द्रानाभाष भवनानि च । रसातल' गतः शक्र कालो वज्राह्वयोऽसुरः॥१५॥ हिलिहिलो भद्रनामा च घोररूपोऽथ दानवः । शङखपालो धृतराष्ट्रो' विद्युन्माली महोरगः।१६।
विद्य ज्जिह्वो हिरण्याख्यः प्रन्धकारश्च राक्षसाः। नागराक्षसदैतेयास्तान् दृष्टवा क्षुभितो महान् ॥१७॥ ' अकृत्वा सङ्गरं तैस्तु भीतास्तेषां नति ययुः ।
ते वशे स्थापयित्वा तु पातालानागताः पुनः ॥१८॥ ताराक्षः शिशुपालश्व प्रभयो यत्र दानवाः। कम्बलस्तक्षकः पद्मो नागा यत्र महाबलाः ।
यमदण्डोनदण्डश्च विशालाक्षः पलाशिनः ॥१६॥ एवंविधा महाघोरा दैत्य-राक्षस-पन्नगाः । तान् दृष्ट्वा सहसा योधावागतौ भुमिजौ तदा ॥२०॥ असिपाशाङकुशैर्दण्डै महासंग्रामञ्चक्रिरे । निजित्य नागरक्षेन्द्र दैतेयानान्तु वाहिनीम् ॥२१॥ प्रणिपातं गताः सर्वे कालवज्रस्य हेतवे । शर्करातालसंज्ञन्तु' गतौ तु घोरजौ बलौ ॥२२॥ महिषो यमकालाख्यो दैत्यराजो महाबलः । उरगाः पद्म कर्कोट शङ्कुकगों स्तथावशः ॥२३॥ महोदरा महाकाया महाभुजाः क्षपाचराः । शर्करे ते स्थिता जित्वा-गतस्ताख्यं ततो गताः१३ ॥२४॥ असुरा शुम्भताराक्ष दनुजा बलपिताः । भोगाः कुलिकः सौवर्णस्तथा चापि ५ धनञ्जयः ।२५ उग्ररुपोऽक्षिभद्रश्च ६ विरुपाक्षो निशाचरः१७ ।जितास्ते दर्शनादेव गतास्ते च रसातलम् १६ ॥२६॥ कालनेमिहिरण्याक्षो निशुम्भो यत्र तिष्ठति । पौण्डरीकञ्च दुष्प्रक्ष्यं श्वेतभद्रं तथोरगाः२०।२७। मेघनादी महानादी पिङ्गलाक्षस्तु खेचराः । एवं ते संस्थिता दृष्टा महाबलपराक्रमाः ॥२८।।
१. च वशंक।
२. वरताले क वरतालं ग। ३. हिनि० क। ४. रुद्रनामा क, ग । ५. राष्ट्र० क । ६. हिरण्याक्षाः क, ग । ७. तेनाप० ख । ८. श्रीतालं तु ते गता: ग। ९. कुन्तै० क । दन्तै ग। १०. शर्करा ताल संग तु क ११. महिषो यमकालाख्या दैत्यराजा
महाबलाः क, ग । १२. वर्णास्तथावशम् क। १३. गमस्त्याख्यं तथागताः क ग । १४. ताराहव० क । १५. कुकारुः सौपरणस्तथा चायं क ग । १६. अस्थिभद्रश्च क । १७. महासुराः क । १८. रोचनातलम्
क ग। १६. हि रण्याख्यो क ग । २०. भद्रस्तथोः क ।