________________
तृतीयोऽध्यायः।
देवराज उबाच ।
भगवन् सर्वदेवेश सर्वशास्त्रार्थ पारग। स्तवंस्तव' कृतं देव वरार्थेन कथां प्रति ॥१॥ त्वञ्च सुरवराध्यक्षः कथां पूर्वां प्रकथ्यसे । अहं स्वर्गाथिनो ब्रह्मन् प्राप्तं यच्च जनार्दनात् ॥२॥ त्वमेव सर्वदेवानां वन्द्यः पूज्यः सुरोत्तमः। तथाहं शरणं भक्त्या तव स्रष्टुरुपागतः ॥३॥
___ ब्रह्मोवाच सत्येदं देवराजेन्द्र भक्त्याहं पूजितस्त्वया । तदर्थ कथयाम्येष' शृणुष्व गदतो मम ॥४॥ कुशद्वीपं पुरा तेन स्वबलेनैव अजितम् । जम्बं शाकं तथा क्रौञ्च शाल्मलीमथ पुष्करम् ।
___सप्त द्वीपास्ततस्तेन देवराज वशीकृताः ॥५॥ क्षारोदञ्चैव क्षीरोदं दधि सपि रिक्षु रसं तथा । मदिरोदञ्च स्वादूदं सप्तोदधिवसुन्धराम्। ॥६॥
निर्जित्य' वरदानेन स्वकीयाज्ञा तु लाञ्छिता॥७॥ कृत्वा वशे भुवं शक्र ततः पातालविग्रहम् । प्रारब्धं ध्वजदण्डेन' कालतन्त्राधिपेन च ॥८॥
आभाषन्ते गताः शक्र पातालं प्रथमं महत् । यत्र तिष्ठति नागेन्द्रो ह्यनन्तः कुलिकः स्वयम् ॥६॥ एलापत्रो'२ महानागो दृष्टिविषो महाबलः । विकटः शूकरास्यश्च'3 लोहिताक्षोऽथ राक्षसः॥१०॥ नदनो नन्दनो भृङ्ग एते चैव महासुराः । तान् दृष्टवा मर्त्यजान् योधान् नागराक्षसदानवाः॥११॥ संना सुबलेनैव ४ 'महासंग्रामं चक्रिरे। ते वज्रवण्ड सैन्यन्तु तथा कालस्य'५ वाहिनी ।
नाग-नव-सधैश्च पलाशैविनिपातिता ॥१२॥
१. स्तवस्तव कृते ख । २. प्रष्ट्रमुखागत: क। ३. सत्ये तं क। ४. पृच्छतस्तव क, पुच्छतस्त्वया ग । ५. यामास क, ग। ..सबले. ख। ७. शाल्मलीमेदपोस्करम् क। ८. ञ्चापि क। ६. वसुन्धरा क। १०. निजिता क। ११. वज्रदण्डेन ग। १२. एलापत्र क, ग १३. शूकराक्षिक, ग । १४. सबलनव ख, स्वबलेनैव ग। १५. कालो महाबल: ग। पंक्तिद्वयं नास्ति ग पुस्तके ।