________________
१०
द्वितीयोऽध्यायः
विचित्र-चित्र- विन्यासामनौपम्यां मनोरमाम् । 'हास्यभावगतां शक्र स पूजयति दानवः ॥ ६८ ॥ दिनं विभज्य चाष्टांशं क्षपाञ्च घटिकादिभिः । श्रतन्द्रितमनाः शक्र-धर्मादीनि न हापयेत् ॥ ६६ ॥ ब्रह्म मुहूर्ते तत्थाय श्रवश्यं विनिवर्त्तयेत् । हतो वै दन्तकाष्ठन्तु शुभं कण्टकवृक्षजम् ॥७०॥ ग्रामोद्दिष्टविधिना भुक्त्वाचम्य यथाविधि । घते वा दर्पणे वापि मुखं पश्येद् ददौ च गाम् ॥७१॥ ततः सभां समास्थाय पश्येत् कार्याणि कार्यिणाम् । सममित्रारिसद्भाव अधीकृतधर्मधीः ॥७२॥ तु आयव्यय ज्ञात्वा धर्मकार्यञ्च साधुभिः । स्नात्वा देवान् पितृ स्तर्प्य हुत्वा भुक्त्वा प्रकीड्य" सः सभामण्डपमास्थाय पश्येत् स्वादि वलानि च ॥७३॥ सन्ध्यां प्राप्य तथा लोकान् विसृज्य मन्त्रिभिः सह । मन्त्रयित्वा यथान्यायं मित्रोदासीनशास्त्रवान् ॥७४॥
बुद्ध्वा मण्डलयोन्यादिमष्टधा दुर्गसञ्चयम् । कोषवृद्धिः प्रजारक्षा कण्टकानाञ्च शोधनम् ॥७५॥ प्रकृतीनां विभागञ्च तेषाञ्चव विचेष्टितम् । मुक्तो प्रष्टादशैर्दोषैः कुर्याद्राज्यं महासुरः । तस्य कालात् समुत्पन्नो वज्रदण्डो महासुरः १२ ॥७६॥
3
ततः सर्वां यथान्यायं गर्भाधानादिकों क्रियां । निर्वर्त्य योग्यतां प्राप्तः सोऽपि तातेन दृष्टवान् ३ ॥७७॥
वज्रदण्ड उवाच
विज्ञापयाम्यहं तात नापराधो ममोपरि । कर्त्तव्यो मम वाक्येषु ग्राह्यमस्मत्सुभाषितम् ॥७८॥ नृपैर्दण्ड बलोपेतं रन्यराज्यजिगीषुभिः । भवितव्यं दनुश्रेष्ठ न चैवं भवता यथा ॥ ७६ ॥ तस्य तद्वचनं श्रुत्वा सुतस्य कृतवेदिनः १४ । प्रोवाच विहसन् घोरो वाक्येन सुमहास्वनः '
१५
॥ ८० ॥
घोर उवाच
अच्युतस्य प्रसादेन मया राज्यं महामते । प्राप्तं घोरेण तपसा निर्जित्य देहजान् रिपून् ॥ ८१ ॥ अहमद्यापि तं देवं सर्व देव नमस्कृतम् । पूजयामि महाबाहो सर्व शत्रु निवर्हणम् ॥ ८२ ॥ स मे ददाति सौख्यानि राज्यं पुत्रांस्त्वया समान् । पत्नीञ्च चन्द्रलेखां वै स पालयति मे विभुः । ८३
१. ईश भाग क देशभाग गतां ग । २. ह्यष्टाङ्ग क ग । ३ प्रतन्त्रित क, ग । ४ विनिवर्तसे ख ।
७. यथाक्रमम् क. ग ।
५. शुभसमुद्भवम् क, ग । ६. वानस्पत्येन ख- पाठान्तरे । ८. कर्मधीः क । ε. तत्र ख । १० कार्याणि क । ११. प्रकीर्त्य क । १२ महासुतः ख । १३. पिता तेन पृष्टवान् ग । १४. कृतिवेदिनम् क। १५. महासुरः क, महामुनि ग । १६. प्राप्तं तपेन घोरेण क ।